________________
२०२
प्रमाणवात्तिकस्ववृत्तिटीका (१९८) (प्रसंगा)त्। अन्यव्यावृत्त्यनभिधाने चैकचोदनानादरात्, अवचनमेव स्यात् ।
तस्मादवश्यं व्यवच्छेदोऽभिधेयः। स च तदन्येष्वभिन्नश्चेत्, जातिधर्मोप्यस्ति। तं नियताभ्यपगमं नियतचोदनं जात्यर्थप्रसाधनं परित्यज्य अर्थान्तरकल्पनं केवलमनर्थनिर्बन्ध एव यथा कल्पनमस्यायोगात्। न वै न क्रियत एव व्यच्छेदः। प्रवृत्तिविषयं कथयद्भिर्जातिरुक्ता।
प्रवृत्तिरनुज्ञाता भवति। तस्यां च सत्यान्तस्याभिमतस्यार्थस्य यन्नाम अभिधानन्तस्य ग्रहणवैयर्थ्यप्रसङ्गात्। तथा ह्यानयेत्युक्ते वस्तुमात्रमाक्षिप्तन्तत्रानभिमतव्यवच्छेदायाग्निशब्दः प्रयुज्यतेऽग्निमानयेति । यदि तु तस्मिन्नपि प्रयुक्तेऽनग्न्यानयनं न व्यवच्छिन्नन्तदाग्निशब्देनोच्चारितेन न किंचित् प्रयोजनं। आनयेत्यनेनाप्यनानयनस्य प्रतिक्षेपादानयनमनानयनं चानुज्ञातं स्यादतः प्रवृत्तिनिवृत्त्यानुज्ञायां च सत्यान्तन्नामग्रहणवैयर्थ्यप्रसंगादिति पूर्वेणैव सम्बन्धः। एवं एकस्याभिमतस्याग्न्यादेरेकस्य चानयनादिलक्षणस्यानुष्ठानस्य या चोदना तस्या अनादरादवचनमेव शब्दानां स्यात्। अन्यव्यावृत्त्यनभिधाने सति। ___ अथवा प्रवृत्तिनिवृत्त्यनुज्ञायामिति वक्ष्यमाणेन सम्बन्धनीयं । यथोक्तविधिना प्रवृत्तिनिवृत्त्यनुज्ञायां चैकचोदनाऽनादरात्। एकस्य प्रवृत्तिलक्षणस्य निवृत्तिलक्षणस्य वा व्यापारस्य चोदनाऽनादरादिति (1) शेषं पूर्ववद् व्याख्येयं ।
एवं च शब्दव्यवहारोच्छेदः स्यान्न चैवन्तस्मादवश्यमित्यादि। स चेत्यन्यव्यवच्छेदः। तदन्येष्विति तस्मादतत्कार्यादन्येष्वेककार्येष्वभिन्नः। सर्वेषामतकार्याद् व्यावृत्तत्वात्। इति कृत्वानेकार्थव्यावृत्तित्वं जातिधर्मोप्यस्ति व्यवच्छेदस्य। तमिति व्यवच्छेदङकिम्विशिष्टं नियतमभ्युपगमो यस्य स तथा। तदनभ्यु
पगमे जातेरभावप्रसङ्गात् । नियतं चोदनमभिधानं यस्य तत्तथा। तदचोदने शब्द75b प्रयोगस्य नैष्फल्यं स्यात् । व्यक्तिषु बुद्धिशब्दयोर'नुगमलक्षणो जात्यर्थस्तस्य प्रसा
(ध)नं प्रसाध्यतेऽनेनेति कृत्वा। एवंभूतं व्यवच्छेदं परित्यज्यार्थान्तरस्य सामान्यस्य कल्पनं केवलमनर्थनिर्बन्ध एवाऽवस्त्वभिनिवेश एव केवलं नान्यत् किञ्चित कारणमस्तीत्यर्थः। किङ्कारणं । (1) यथा कल्पनं नित्यव्यापिताद्यकारैरस्य सामान्यस्यायोगादित्यन्यव्यावृत्त्यभिधानेऽयमभिप्राय आचार्य दि ग्ना ग स्य ।।
नेत्यादि परः। न वै न क्रियत एव शब्देन व्यवच्छेदः किन्तु क्रियत एव । किमर्थन्तहि जातिरुक्तेत्यत आह। प्रवृत्तीत्यादि अर्थक्रियार्थिनो हि या प्रवृत्तिस्तस्या विषयो जातिः । तं कथयद्भिरस्माभिर्जातिरुक्ता। ___ व्यवच्छेदेत्यादि सिद्धान्त वा दी । अस्य शब्दस्याभिधेयो व्यवच्छेदोस्ति चेत् ।