________________
४. सामान्यचिन्ता
२०१
भेवस्तदन्येषामभेदः, तद्विशिष्टेष्वर्थेषु प्रतिपत्तिरस्तु। सर्वथा दोषपरिहारस्य 449a कर्तुमशक्यत्वात् अर्थान्तराभ्युपगमे हि प्रयोजनाभावात्। तदर्थस्यान्येन सिद्धः, तवभ्युपगमस्याऽपि अवश्यंभावात् ॥ अपि च।
तदन्यपरिहारेण प्रवर्तेतेति च (ध्वनिः)।
(उच्यते) तेन तेभ्यो(स्या) व्यवच्छेदे कथञ्च सः॥९८॥ शब्दं प्रयुंजान एषोऽर्थेषु अनिष्टपरिहारेण (कथं) प्रवर्ततेत्यभिप्रायेण प्रयुंक्ते। तत्रान्यत्र च प्रवृत्यनुज्ञायां, प्रवृत्तिनिवृत्त्यनुज्ञायां वा अभिधानग्रहणवैयर्थ्य
इति व्यावृत्त्यभावे अस्या अपीति वस्तुभूताया जातेः। भावानां भेदाभावे सत्यनेकार्थसमवेतरूपाया जातेरभावात्। न च जात्याभेदः क्रियत इत्युक्तं। तस्मादवश्यम्भेदोभ्युपगन्तव्यः (1) स चैकस्मादतत्कार्या (त् ?) भेदस्तदन्येषान्तस्मादतत्कार्यादन्येषान्तत्कार्याणामभेदस्तद्विशिष्टष्वभेदविशिष्टेषु प्रति पत्तिरस्तु। प्रतिपत्त्यालम्बनत्वात् प्रतिपत्तिरित्युक्तः। न पुनः स एव प्रतिपत्तिः। करणसाधनो वा प्रतिपत्तिशब्दः प्रतिपद्यन्तेऽनया व्यावृत्त्या करणभूतया भावानिति कृत्वा। ___ सर्वथेति। यदि व्यावृत्तिविशिष्टो जातिविशिष्टो वार्थो वाच्यस्तद्वत्पंक्षोदितो यथानन्त्यादिदोषस्तत्परिहारस्य कर्तुमशक्यत्वात्। तुल्यश्चेद्दोषो जातिरेव' कस्मान्नाभ्युपगम्यत इति चेदाह। अर्थान्तरेत्यादि। अर्थान्तरम्वस्तुभूता जातिः। 7sa भिन्नेष्वभिन्नप्रत्ययजननं जातेः प्रयोजनमिति चेदाह। तदर्थस्येति जातिसाध्यस्य। अन्येनेत्यतत्कार्यव्यावृत्तिलक्षणेनाभेदेन (1) जात्यापि हि-सोर्थः साध्यत इति कस्माज्जातित्यागे व्यावृत्त्यभ्युपगम इत्यत आह। तदित्यादि। तदभ्युपगमस्येति व्यावृत्त्यभ्युपगमस्य (1) तदनभ्युपगमे हि जातिकल्पनैव न स्यादित्युक्तं ॥ ___ अधुना शब्देनावश्यं व्यावृत्तिश्चोदनीयेत्यत आह। अपि चेत्यादि। विवक्षितादादन्यस्तस्य परिहारेण श्रोता प्रवर्ततेति कृत्वा ध्वनिरुच्यते प्रतिपादकेन। चकार एवशब्दस्यार्थे भिन्नक्रमश्च तदन्यपरिहारेणेत्यस्यानन्तरं द्रष्टव्यं । तेनेति ध्वनिना। तेभ्य इत्यनभिमतेभ्यस्तस्याभिमतस्यार्थस्या व्यवच्छेदेऽव्यवच्छेदेनाभिधीयमान इत्यर्थः (1) कथं श्रोता प्रवर्ततेति।
शब्दमित्यादिनैतदेव व्याचष्टे। एष वक्तार्थेष्वभिमतार्थक्रियाकारिष्वनिष्टपरिहारेणानभिमतार्थव्यवच्छेदेन प्रवर्त्तत कथं नाम श्रोतेत्यनेनाभिप्रायेण प्रयुङ क्ते।
यदि शब्देनान्यव्यवच्छेदो न चोद्येत तदा तत्र प्रत्याय्याभिमतेऽन्यत्र चेत्यनभिमते