________________
२००
प्रमाणवात्तिकस्ववृत्तिटीका (१।६७) तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः । यामर्थक्रियामधिकृत्य अर्थेषु शब्दान् नियुंक्ते। तत्कारिणामर्थानामन्येभ्यो भेदात, तेषां तत्रैवाभेद इति किन्न शब्दः प्रयुज्यते ?
तद्वदोषस्य साम्याच्चेदस्तु जातिरलं परा ॥९॥ स्यादेतत्। अन्यस्माद् व्यावृत्तेऽपि शब्दार्थे न तद् (वत्)पक्षाद् विशेषो व्यावृत्तिविशिष्टस्य तद्वतोऽभिधानात् । को हि व्यावृत्तिजातिव्यावृत्तिजातिमवित्यत्र विशेषः ? तद्वद् दोषोऽपि स्याद्।
अस्तु नाम जातिरन्या । जातिमपि हि अभ्युपगच्छताऽवश्यं वस्तूनि अभ्युपगन्तव्यानि, तदभावेऽस्या अपि अभावप्रसंगात्। एकस्मात्
दर्शयितुं पृच्छति। अपि चेत्यादि। एवम्मन्यते। यथा गोशब्दादप्रतीयमाने गोत्वे गोशब्द: संकेत्यते तथा। तत्कारिणां विवक्षितार्थक्रियाकारिणामतत्कारिभ्यो ये विवक्षितार्थक्रियाकारिणो न भवन्ति तेभ्यो यो भेदस्तेन सामान्यं सर्वेषान्तत्कारिणामतत्कारिभ्यो भिन्नत्वादतस्तस्मिन्भेदसाम्ये अन्यापोहलक्षणे किन्न कृतः कस्मात् संकेतो न कृत इति पृच्छति परं। एतदेवाह। यामर्थक्रियामित्यादि। दाहपाकादिलक्षणस्यार्थस्य क्रियां निष्पत्तिमधिकृत्याभिप्रेत्यायं पुरुषोर्थेष्वभिप्रेतार्थक्रियाकारिष शब्दानि युङ्क्ते प्रयुक्ते। तत्कारिणामभिप्रेतार्थक्रियाकारिणामन्येभ्योऽतत्कारिभ्यो भेदात कारणात् तत्कारिणः सर्वविजातीयव्यावृत्ता अभिन्ना भवन्ति। तत एषामर्थानान्तत्रैवाभेद इति अन्यव्यावृत्तिलक्षणे किन्न शब्दः प्रयुज्यते। व्यावृत्तिविशिष्टस्यापि संकेतवशात् प्रतीतिः स्यादिति प्रश्नाभिप्रायः ।
तद्वदित्यादि। जातिमत्पक्षे यो दोष आचार्य दि ग्ना से नो क्त"स्तद्वतो. नास्वतन्त्रत्वादि"त्यादिना यस्तद्वद्दोषस्तस्य साम्यात्तस्य दोषस्यावताराद् भेदेन्यव्यावृत्तिलक्षणे शब्दो न नियज्यते। अस्त्वयन्दोष इत्यभ्यपगच्छति। नैवायन्दोषोस्तीति प्रतिपादितमभ्युगम्य त्वेवमुक्तं। जातिरलम्परा। जातिस्त्वन्या न युक्तेत्यर्थः ।
स्यादित्यादिना व्याचष्टे। अन्यस्माद् अतत्कारिणो व्यावृत्तेपि वस्तुनि शब्दार्थेभ्युपगम्यमाने। तद्वत इति व्यावृत्तिमतः। न तद्वत्पक्षादस्य व्यावृत्तिमत्पक्षस्य विशेषः। एतदेवाह। को हीत्यादि। त्वया व्यावृत्तिरित्युक्तं परेण जातिरित्यादि। अत्र वाच्ये को विशेषः (1) नैव कश्चिदन्यत्र शब्दभेदात् ॥
अस्तु नामेति सिद्धान्त वा दी। जातिरन्येति वस्तुभूता। किम्पुनस्तुल्ये दोषे व्यावृत्तिरङ्गीक्रियते न वस्तुभूता जातिरित्याह। जातिमपि हीत्यादि । तदभाव