________________
४. सामान्यचिन्ता
१६६
१६६ तत्र शब्दयोग इति चेत्--
सच। साक्षान्न योज्यते कस्माद् व्यक्तौ शब्दयोगेन फलवच्चत्', स च शब्दः कस्माद् व्यक्तिषु साक्षान्न योज्यते। 448b तत्र किमन्येन व्यवधिना?
आनंत्याच्चेदिदं समम् ॥१६॥ स्यादेतत् । तद्वत्यो व्यक्तयो हि आनन्त्यात् शब्दाभिधानेऽसमर्थाः। एवं चेत् इरमानन्त्यं तद्वत्यपि समम् । जातिविशिष्टा व्यक्तय एव वक्तव्या इति अवश्यं (तत्र) सम्बन्धः करणीयः, अकृतसम्बन्धस्यानभिधानात् । स च न शक्यः।
तत्सम्बन्धिनि करणात् तत्रापि कृत एवेति चेत् उक्तमत्र। सत्यपि सम्बन्ध एकत्र कृताद् अन्यत्राप्रतीतौ हि न च सम्बन्धोऽस्तीति ॥६६॥ .. अपि च।
व्यवधिना व्यवधायकेन कल्पितेन ।
"पानन्त्याच्चे"ति परः ।
"इदमानन्त्यं सम"मित्युत्तरं। । एतदेव व्याचष्टे । स्यादेतदित्यादिना। तद्वत्यपीति जातिमत्यपि। यस्माज्जात्यादिविशिष्टाः सत्यो व्यक्तय एव वक्तव्या इति हेतोरवश्यन्तत्रेति व्यक्तिषु शब्दस्य सम्बन्धः करणीयः (1) कस्माद् (1) अकृतसम्बन्धस्यानभिधानात्। कर्तरि षष्ठी। कृतः सम्बन्धो यस्य शब्दस्य। तेनानभिधानादित्यर्थः। कर्मणि वा षष्ठी। अकृतसम्बन्धस्य वार्थस्य शब्देनानभिधानात्। स चेति सम्बन्धः । तद्वता सह न शक्यं कर्तुमानन्त्यात्। तस्मादयुक्तोयम्पक्षः ।
तत्सम्बन्धिनि । व्यक्तिसम्बन्धिनि सामान्य शब्दस्य सम्बन्धकरणाद्धेतोस्तत्रापि जातिसम्बन्धिभ्यां व्यक्तौ सम्बन्धः कृत एवेति चेत्।
उक्तमत्रोत्तरं (1) सामान्यस्य सत्यपि सम्बन्धे एकत्र जातौ कृतात् संकेतादन्यत्र व्यक्तावप्रतीतिर्न च जातितद्वतोः सम्बन्धोस्तीत्येतच्चोक्तं। न हि सत्यपि सम्बन्धे दण्डशब्दाद् दण्डिनि प्रतिपत्तिः (1) तथा न च जातितद्वतोः कश्चित्सम्बन्धोस्तीति सम्प्रत्युक्तत्वात् ॥'
एवन्तावत् सर्वभावा इत्यादिना वा त्ति क का रः स्वाभिमतं विधिशब्दलिंग- 74b विषयमाख्याय संप्रति येनाभिप्रायेणाचार्य दिग्नागेन भेदलक्षणं सामान्यमुक्तन्त