________________
१९८ प्रमाणयात्तिकस्ववृत्तिटीका (१।९५) नित्यमनुगमप्रसंगात्। ___सर्वदा तत्सम्बन्धयोग्यताप्रतीतेरिष्टमेवेति चेत् । अथ सर्वदा गोशब्दादप्रवृत्तिः। सहिता सहितावस्थयोविशेषेणानाक्षेपात्। व्यक्तिसम्बन्धिन्या जातेश्चोदनाद् अदोष इति चेत्। अथ सापि तद्विशेषणत्वेन आक्षिप्तैवेति सद्वानभिधेयः स्यात्। ___ न च जातितद्वतोः सम्बन्धः कश्चित्, अन्योन्यं जन्यजनकत्वेनानुपकारात्। ततो लक्षणमप्ययुक्तम् । एवं जातौ न शब्दयोगः फलाभावात्। एवं तु
नद्वानर्थक्रियायोग्या (जातिः) तद्वानलं;
74a . सर्वदेत्यादि परः। सर्वदेति व्यक्त्यपायानपायकालयोस्तत्सम्बन्धयोग्यता
प्रतीतेरिष्टमेव व्यक्त्यनुगमनमिति चेत्। एतत्कथयति (1) यथा भ्रात्रादिशब्दाः स्वार्थमभिदधानाः सम्बन्धिनमविशेषणात् क्षिपन्ति तथा जातिशब्दा अपीति।
उत्तरमाह। सर्वदेति। सर्वदेति व्यक्त्यपायाऽनपायकालयोर्गोशब्दादप्रवृत्तिहिदोदादियोग्ये व्यक्तिविशेषे। किङ्कारणमिति चेदाह। सहितेत्यादि । सप्तमीद्विवचनमेतत्। जार्तेर्व्यक्तिसहितासहितावस्थयोविशेषेणार्थक्रियाक्षमस्य विशेषस्यानाक्षेपात्। एतदुक्तम्भवति। यथाऽतीतानागतव्यक्तेः शब्दार्थरूपतया जातिशब्देनाक्षेपस्तथा वर्तमानाया व्यक्तेरुभयत्र शब्दार्थरूपतया प्रतिभासनस्याविशेषणादिति।
व्यक्तिसम्बन्धिन्या जातेश्चोदनाद् व्यक्तौ प्रतीतिर्न प्राप्नोतीत्यय मदोष इति चेत् ॥
भवत्वेवं किन्तु सापि व्यक्तिस्तद्विशेषणत्वेन जातिविशेषणत्वेन जातिचोदनायामाक्षिप्तैवेति न जाति: केवलाभिधेया। किन्तु तद्वानभिधेयः स्यादिति पक्षान्तरपरिग्रहः स्यात्। तत्र चानन्तरमेव दोषम्वक्ष्याम इत्याकूतं ।। ____जातितद्वतोः - सम्बन्धमभ्युपगम्यैतदुक्तं (1) सम्बन्ध एव तु नास्तीत्याह । न चेत्यादि। किं कारणम् (1) अन्योन्यम्परस्परमजन्यजनकत्वेनानुपकारात्। तत इति सम्बन्धाभावाज्जातिचोदनया व्यक्तेर्लक्षणमप्यक्तं। फलाभावादित्यर्थक्रियाया अभावात्।
व्यक्त्यभिन्नसामान्यवादिनोपि प्रत्यक्षवच्छाब्दे ज्ञाने व्यक्तिप्रतिभासः स्यात् । भेदांशेन तु तस्यापि लक्षणमयुक्तं । एवमित्यादिना पक्षान्तरमाशङ्कते। तद्वानिति जातिमान् । अलमिति समर्थः। तत्रेति तद्वति। स चेति सिद्धान्त वा दी।
अस्यैव व्याख्यानं स च शब्द इत्यादि। तत्रेति व्यक्तौ किमन्येन सामान्येन