________________
४. सामान्यचिन्ता
१६७ स्यात्। न पुनस्ततोऽन्यत्र प्रवृत्तिः। वलीवर्ददोहचोदनावत्। न चार्थान्तरचोदनेऽर्थान्तरं लक्ष्यते। सत्यपि सम्बन्धे शब्देन दण्डिनो न प्रतीतिः। अनियतसम्बधित्वात् तत्र प्रवृत्तिन भवतीति चेत्। तत् तुल्यं जातावपि। व्यक्तीनां व्यंजने जातिः केवलं स्थित्यर्था। भ्रात्रादिशब्दास्तु सम्बन्धिशब्दत्वात् आक्षिपेयुः परम्। न तथा गोत्वादिशब्दाः सम्बन्धवाचिनः। अपेतव्यक्तीनां जातीनामपि तच्छृतिभ्यो
विष्यतीति चेदाह। नापीत्यादि। केवलमर्थान्तरसम्भवि कार्यमसम्भविन्यर्थे चोदयन् वक्ता प्रतिपाद्यस्यासम्बद्धप्रलापी स्यात्। न पुनस्ततोसमर्थाच्चोदितात् समर्थे प्रवृत्तिर्बलीवर्ददोहचोदनावत् (1) न हि केनचिद् बलीवर्दन्दोग्धीत्युक्ते तत्र दोहासम्भवात् । बलीवदन्यत्र सम्भवायां गवि दोग्धं प्रवर्त्तते श्रोता (1) केवलन्तस्यैवम्भवत्य (सं)बद्धप्रलाप्ययं वक्तेति ।
स्यान्मतं (1) वलीवर्दचोदने सम्बन्धाभावात् मा भूत् स्त्रीगव्यां प्रवृत्तिः । जातो तु चोदितायां सम्बन्धात् तद्व्यक्तौ प्रवृत्तिर्भविष्यतीत्याह। न चेत्यादि। अर्थान्तरस्य सामान्यस्य सम्बन्धस्यापि चोदनेनार्थान्त (र)स्येति व्यक्तेः।
नन्वशब्दचोदिते सत्यपि सम्बन्ध इत्यादिनोक्त एवायमर्थः ।
सत्यम् (1) अधिकविधानार्थन्तु पुनः प्रस्तावः। तदेव पूर्वपक्षयति । अनियतेत्यादि । अनियतः सम्बन्धो यस्य दण्डस्य स तथोक्तः। तथा हि दण्डिनमन्तरेणापि दण्डे विद्यते तद्भावस्तस्मात्। तत्रेति दण्डिनि। नेति चेदिति दण्डे चोदिते प्रवृत्तिन भवतीत्यर्थः । जातौ तु चोदितायां नियतसम्बन्धाद् व्यक्तौ प्रतीतिर्भवतीति भावः।
तदित्यादि सिद्धान्त वा दी। तदित्यनियतसम्बद्धत्वं तुल्यं जातावपि।
कथमिति चेदाह। व्यक्तीनामित्यादि। स्यादेतद् (1) यथा भ्रात्रादिशब्दाः स्वार्थमभिदधाना द्वितीयमाक्षिपन्ति तथा जातिशब्दा इत्यत आह। भ्रात्रादिशब्दास्त्वित्यादि। आदिशब्दात पूत्रादिशब्दाः । सम्बन्धिशब्दवाच्यत्वात् सम्बन्ध्यन्तरापेक्षैव तेषां व्यवस्थापितत्वादिति यावत् । आक्षिपेयुः परमिति द्वितीयं भ्रात्रादिकं। आक्षेपश्च द्वितीयसम्बन्धाकारविकल्पजननं । न तूपस्थापनमेव विनष्टेपि सम्बन्धिनि विकल्पोत्पत्तेः । न तथेति वैधर्म्यकथनं । यदि सम्बन्धिवाचिन्यः स्युस्तदायन्दोषः स्यादित्याह। अपेतेत्यादि। अपेता विनष्टा व्यक्तयस्सम्बन्धित्वेन यासां पा ण्ड वा दि जातीनान्तासामपि तच्छ तिभ्यो जातिवाचकेभ्यः शब्देभ्यो नित्यमपेतव्यक्तिसम्बन्धित्वेनाप्यनुगमप्रसंगः । एवं ह्यपेतव्यक्तिसम्बन्धित्वेन तासामनुगमो. यद्यपेतानामपि व्यक्तीनामनुगमः स्यात् । यद्वा जातीनां सम्बन्धिभ्यो या अपेता व्यक्तयस्तासां तच्छब्देभ्यो नित्यमनुगमनप्रसङ्गात्।।