________________
१६६ प्रमाणवात्तिकस्ववृत्तिटीका (१।९५)
इति चेत् । अशब्दाचोदिते सम्बन्धे सत्यपि कथं प्रवर्तते ? न हि कश्चित् दण्डं छिन्धी448a त्युक्ते दंडिनं छिनत्ति । नाऽपि असम्भवात् व्यक्तौ' प्रवृत्तिः। तथा हि असंबद्धप्रलापी
शब्दनिवेशो युक्तोऽनर्थक्रियाकारित्वात् (1)
सत्यं (1) केवलमर्थक्रियाकारित्वेनैव प्रतिभासनात्तत्र शब्दनिवेशो युक्त इति प्रतिपादयिष्यते। __ न त्वेवमपि तस्य ज्ञानाशस्य स्वलक्षणत्वात् कथं शब्दवाच्यत्वं ।
अत्रोच्यते। बाह्याभिन्नस्तावत् स्वाशो विकल्पे प्रतिभासत एव (।) न तावदस्य विकल्प ग्राह्यत्वात् प्रतिभासः सर्वात्मना निश्चयप्रसङ्गादनभ्युपगमाच्च ।
नापि विकल्पेन बाह्यात्मतयाध्यवसाय एवास्य ग्रहणं यथावस्थितेन स्वरूपेणाग्रहणादग्रहणे च कथन्तत्र प्रतिभासः। ज्ञानस्वलक्षणत्वे तु स्वांशस्य सम्वित्स्वभावत्वात् प्रतिभासो युक्तः। तेनाविद्यारूपस्य स्वांशस्य विकल्पस्य च यदि ज्ञानस्वलक्षणत्वं नेष्यते तदा प्रतिभास एव न स्यादेवमज्ञानरूपेण च विकल्पेन कथं स्वाशस्य परिच्छेदोस्य ज्ञानधर्मत्वात्। तस्माज्ज्ञानस्वलक्षणत्वादेव स्वांशस्य विकल्पे प्रतिभासः स बाह्याभिन्नो विकल्पविषयो व्यवस्थाप्यते। तस्य सम्विदितरूपस्यैव बाह्याभेदेन विकल्पेनाध्यवसीयमानत्वादत एव विकल्पः सामान्यविषय उच्यते न स्वलक्षणविषयोऽर्थस्वांशयोरेकस्यापि स्वरूपेणाग्रहणात् । तेन स्वांशस्य ज्ञानस्वलक्षणस्यापि बाह्यात्मतयाध्यस्तस्य सामान्यरूपत्वं। तथा च वक्ष्यति।
"ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते।
तथेष्टत्वादपोह्यर्थरूपत्वेन समानते"ति। (प्र० वा० ३।६) तस्य च शब्दवाच्यत्वं यक्तमेव।
लक्षितलक्षणेत्यादि परः। सत्यं न सामान्यमर्थक्रियाकारि किन्तु व्यक्तिरेव 73b केवलं व्यक्तेरशक्यचोदनत्वात् कारणात् सामान्ये नियुक्तः शब्दः? सामान्य
लक्षयति (1) तेन सामान्येन शब्दलक्षितेन सम्बन्धाद् व्यक्तिरपि लक्ष्यत इति । .. तदेतदप्रतीतिकं। न हि गोशब्दादुच्चरिताद् गोत्वं प्रतीयते गौरपि तु गौरेपावसीयते। न नामैवन्तथाप्युच्यते। अशब्दचोदितेत्यादि।
यदि नाम जातितद्वतोस्सम्बन्धस्तथाप्यशब्दचोदिते व्यक्तिविशेषे कथं प्रवर्तते (1) नैव। दण्डदण्डिनोस्सत्यपि सम्बन्धे न हि कश्चित् प्रेक्षापूर्वकारी दण्डञ्छिन्धीत्युक्ते दण्डिनञ्छिनत्ति। अशब्दचोदितत्वात्तथा जातौ चोदितायां व्यक्तौ प्रवृत्तिर्न युक्तेत्यर्थः। . जातौ वाहदोहादीनामसम्भवादशब्दचोदितायामपि व्यक्तौ प्रवृत्तिर्भ