________________
४. सामान्यचिन्ता
१६५
यत्वात्। तदयं क्वचित् शब्दं नियुञ्जानः किंचित् फलमेवेहितुं युक्तः। तच्चेत् सर्वमिष्टानिष्टप्राप्तिपरिहारलक्षणम् । तेनायं इष्टानिष्टसाधनासाधनं कृत्वा, तत्र प्रवृत्ति निवृतं वा कुर्या कारयेयं वेति नियोग आद्रियेत शब्दान् वा नियुंजीत । अन्यथोपेक्षणीयत्वात् तत्र जातिरनर्थक्रियायोग्या। ____ न हि जातिहबोहादौ क्वचिदपि प्रत्युपस्थिता। न वा तादृशप्रकरणाभावे लोकव्यवहारेषु शब्दप्रयोगः। व्यक्तेरशक्यचोदनत्वात् लक्षितलक्षणा जातिरुच्यत
शाब्दोन्यो वावधेयो ग्रहणार्ह आरम्भो व्यवहारः फलार्थः। न तु निष्फल: (1) किकारण (1) निष्फलारम्भस्य प्रेक्षापूर्वकारिभिरुपेक्षणीयत्वादग्राह्यत्वात् । तदिति तस्मात् । अयं प्रतिपत्ता क्वचिदभिमतेर्थे नियुञ्जानः संकेतयन् फलमेवेहितुं युक्त इति प्रयोजनमेवापेक्षितुमर्हतीति यावत् । तच्चेति फलमिष्टस्याप्तिलक्षणमनिष्टस्य च त्यागलक्षणमिति यथायोगं सम्बन्धः। येनेष्टानिष्टप्राप्तिपरिहार'रूप एव पुरुषार्थोभिप्रेतस्तेनायं पुरुषस्तयोरिष्टयोः फलयोः साधनमसाधनं चार्थं ज्ञात्वा तत्रेष्टसाधने प्रवृत्तिमनिष्टसाधने च निवृत्ति कुर्यां कारयेयम्वा परानित्यनेनाभिप्रायेण शब्दाग्नियुञ्जीत प्रयोक्ता' श्रोतापि नियोगे वाद्रियेत । 73a
युक्तन्तावत् परं व्यवहारयेयमिति शब्दनियोगः । शब्दनियोगस्य पराङ्गत्वात् । स्वयन्तु प्रवृत्तिनिवृत्तिकारणे कः शब्दस्योपयोगः।।
सत्यं (1) केवलं शब्दप्रयोगाभ्यासात स्वयमपि प्रतिपद्यमानः कदाचिदेव प्रतिपद्यत इत्युपन्यासः कृतः। अन्यथोपेक्षणीयत्वादिति फलमन्तरेण शब्दनियोगस्योपेक्षणीयत्वात्। तत्रैवं व्यवस्थिते न्याये जाति रनर्थक्रियायोग्याऽतो न शब्दविषया।
तद्वयाचष्टे न हीत्यादि। न जातिर्वाहदोहादिकं कर्तुं समर्था (1) ततश्च वाहदोहाद्यर्थिनो जातिचोदना निष्फलेति न तदर्थः शब्दप्रयोगः।
यापि स्वप्रतिपत्तिलक्षणार्थक्रिया जातेरुपवर्ण्यते। न तदर्थम्पुरुषः प्रवर्तते शब्दप्रयोगादेव तस्याः सिद्धत्वात्। जातिमात्रप्रतिपत्त्यर्थं शब्दप्रयोगो भविष्यतीति चेदत आह। न वेत्यादि। तादृशमिति वाहदोहादिप्रकरणं निष्फलस्य शब्दप्रयोगस्योपेक्षणीयत्वादित्युक्तत्वात्। जातौ च वाच्यायां सत्यां। गामानयेत्यत्र वाक्येन वाक्यार्थप्रतीतिः स्यात् । गोत्वस्य क्रियात्वेन्वयाभावात् । नापि लक्षितलक्षणया वाक्यार्थप्रतीतिरप्रतीतेन हि पदेभ्यस्तावत् सामान्यानां प्रतीतिः (1) पुनस्नेभ्यो विशेषाणां विशेषेभ्यश्चान्वयस्येत्येवं विलम्बितरूपा वाक्यार्थ प्रतीतिः ।
नन्वपोहेपि वाच्ये कथं बाह्यार्थप्रतीतिर्नीरूपत्वादपोहस्य (1) न च ज्ञानाशे