________________
१६४
प्रमाणवात्तिकस्ववृत्तिटीका (११६५) शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः ।
तदा स्वलक्षणन्नास्ति सङ्केतस्तेन तत्र न ॥९४॥
न हि शब्दैः संकेतितार्थप्रदर्शने संकेतः। अपि नाम पश्चात्काले कृतः संकेतः 147b अस्माच्छन्दादेतदर्थप्रतिपत्तिः इति मत्त्वा व्यवहारार्थ उपयुज्यत' इति चेत् । प्राक्
स्वलक्षणे कृतसंकेतः शब्दः पश्चाद् योज्यत इति न युक्तम्। तस्य व्यक्तेर्देशकालभेदेष्वनास्कन्दात्। एवं चेत् स्वलक्षणे नास्ति संकेतकरणम्। ___ अथ व्यतिरिक्ताव्यतिरिक्तव्यापि शब्दरुच्यते, तन्न व्यवहारकालाभावदोष इति चेत्। न। एवम्।
अपि प्रवर्तेत पुमान् विज्ञायार्थक्रियाक्षमान् ।
तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधायकाः॥१५॥ न खलु लोकोऽसंकेतयन् शब्दानप्रयुञ्जानो वा दुःखितः स्यात् व्यसना (पन्नः।) अथ किमिति चेत् । सर्व एवावधेय आरम्भः फलार्थः। निष्फलारम्भस्य उपेक्षणी
एकस्यापि स्वलक्षणस्य क्षणिकत्वात् कालान्तरे तेनैव रूपेणानुगमो नास्त्यक्षणिकत्वे वा संकेतः ज्ञानाभावादेव तद्विषयत्वस्य कालान्तरेनुगमो नास्ति किमुत देशकालभिन्नेषु स्वलक्षणेषु। तेन कारणेन तत्र स्वलक्षणे संकेतो न क्रियत इत्यध्या हारः।
न हीत्यादिना व्याचष्टे।
अपि नामेति कथन्नु नाम। प्रागिति संकेतकालकृतसम्बन्धस्य शब्दस्येति सम्बन्धः। एकत्रकस्सिमन् स्वलक्षणे पश्चादिति व्यवहारकाले। किङ्कारणं (1) न युक्तमित्याह। तस्येत्यादि। तस्येति संकेतकालदृष्टस्य व्यवहारावस्थानादिषु देशकालभेदेष्वनास्कन्दनात्। अनुगमात्। न ह्येकत्र दृष्टो भेदोन्यत्र . सम्भवति ॥
व्यतिरिक्तमिति वै शे षि क दर्शनेनाव्यतिरिक्तं सां ख्य दर्शनेन। समानजातीयव्यक्तिव्यापनाद् व्यापि सामान्यं । तत्तस्मान्न व्यवहारकालाभावदोषः । व्यवहारकाले शब्दार्थस्याभावदोषो नास्ति। सामान्यस्य शब्दार्थत्वात्तस्यैवैकत्वेन संकेतव्यवहारकालयोविद्यमानत्वात्। ___ कथं नामेत्यस्मिन्नर्थे अपिशब्दः (1) व्यवहारकाले शब्दादुच्चरितादर्थक्रियाक्षमान् अर्थान् विज्ञाय तत्साधनायार्थक्रियासाधनाय कथन्नाम प्रवर्तत पुमानित्यनेनाभिप्रायेणार्थेषु संयोज्यन्तेऽभिधायकाः शब्दाः।
न खल्वित्यादिना व्याचष्टे। फलनिरपेक्षं क्वचित् तात्पर्य व्यसनं। यदयं लोको संकेतयन् संकेतमकुर्वाणः संकेतितेर्थे शब्दान् प्रयुञ्जानो वा। सर्व एवेति