________________
४. सामान्यचिन्ता
भेदः सामान्यसंसृष्टा ग्राह्या नात्र स्वलक्षणम् ॥ ९१ ॥ समानभिन्नाद्याकारैर्न तद् ग्राह्य कथचन । भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ||९२|| तद्रूपं सर्वता भिन्नं तथा तत्प्रतिपादिका । न श्रुतिः कल्पना वास्ति सामान्येनैव वृत्तितः ॥ ९३॥ इति संग्रहश्लोकाः ।
कि
पुनः स्वलक्षणे शब्दा नियुज्यन्त इति चेत् ।
•
१६३
साध्येत्यादि । साध्यसाधनसंकल्पे वस्तुदर्शनहानितः कुतः स्वलक्षणस्य सामान्यविशिष्टस्य ग्रहणं । भेदः सामान्यसंसृष्टो ग्राह्य इत्याचार्य दिग्नाग प्रभृतिभिः सामान्यसंसृष्टस्य स्वलक्षणस्य ग्रहणं प्रतिज्ञातमित्याशङ्कामपनयन्नाह । भेद इत्यादि । भेदः सामान्यसंसृष्टः प्रतीयत इत्यत्रापि वचने ग्राह्यं न स्वलक्षणमेव निर्दिष्टमिति नैवम्बोद्धव्यमित्यर्थः । किन्तु बाह्या एव भेदास्तेनान्यापोहलक्षणेन सामान्येन संसृष्टा अध्यवसीयन्ते न तु गृह्यन्त इति तत्रापि बोद्धव्यं ।
अन्ये तु भेदः सामान्यसंसृष्टो ग्राह्य इति पुल्लिङ्गेन पठन्ति । तत्रायमर्थो भेदः । सामान्यसंसृष्टो ग्राह्य इत्यत्रापि वचने । न स्वलक्षणं बोद्धव्यं ॥
किम्पुनः कारणन्तत्रैव बोद्धव्यमिति चेदाह । समानेत्यादि । अनेकस्मिन्नेकाकारः समानाकारः । एकस्मिन्ननेकधर्मत्वम्भिन्नाकारः । आदिशब्दाद् धर्मधर्म्याकारपरिग्रहः । न तत् स्वलक्षणं ग्राह्यं कथंचन । किं कारणं (1) तत्रैकस्मिन् स्वलक्षणे कृतकत्वानित्यत्वादिरूपेण बहुभेदानान्धर्माणां किम्विशिष्टानाम्भेदानाम्वस्तुरूपाणान्तत्रैकस्मिन् स्वलक्षणेऽयोगात् । न ह्येकस्य वस्तुरूपाणि बहूनि युज्यन्ते निरङ्शत्वात् स्वलक्षणस्य ॥
उपसंहरन्नाह । तद्रूपमित्यादि । तत्तस्माद रूपं स्वलक्षणं सर्वतो भिन्नमसाधारणन्तथा तेनासाधारणेन रूपेण तस्य स्वलक्षणस्य न' प्रतिपादिका श्रुतिः 72b शब्दो नास्ति । कल्पना वास्ति । नेति प्रकृतं । असाधारणेन स्वरूपेण स्वलक्षणस्य ग्राहको नास्तीत्यर्थः । किं कारणं (1) सामान्येनैव शब्दस्य कल्पनायाश्च वृत्तितः ॥
तत्प्रतिपादिका न श्रुतिरस्तीति ब्रुवता स्वलक्षणे शब्दा न नियुज्यन्त इत्युक्तमतश्चोदयति ।
किम्पुनरित्यादि । संकेतेन विषयीकृताः संकेतिनः । तमाहुः शब्दा ( : 1 ) व्य-वहाराय संकेतः स्मृतः । तदा व्यवहारकाले तत्स्वलक्षणन्नास्ति यत्र संकेतः कृतः ।
२५