________________
१६२
प्रमाणवात्तिकस्ववृत्तिटीका (११६०) धर्मधमिव्यवस्थानं (भेदोऽभेदश्च) यादृशः । असमीक्षिततत्त्वार्थों यथा लोके प्रतीयते ॥८॥ तन्तथैव समाश्रित्य साध्यसाधनसंस्थितिः । परमार्थावताराय विद्वद्भिरवकल्प्यते ॥८॥ संसृज्यन्ते न भिद्यन्ते स्वतोर्थाः पारमार्थिकाः । रूपमेकमनेकन्च तेषु बुद्धरुपमवः ॥८९॥ भेदस्ततोऽयं बौद्धेऽर्थे (सामान्य) भेद इत्यपि । तस्यैव चान्यव्यावृत्या धर्मभेदः प्रकल्प्यते ॥९॥ साध्यसाधनसंकल्पे वस्तुदर्शनहानितः ।
धर्मर्मिव्यवहारश्च ज्ञानप्रतिभासिन्यर्थ इति यत् प्रकृतन्तत्संग्रहार्थमाह। धर्मेत्यादि। अयं धर्मोऽयं धर्मीति व्यवस्थानन्तयोश्च भेवोऽस्यायं धर्मः कृतकत्वादिलक्षणः। अभेदः कृतकोयमिति यादृशः। अयं च विकल्पारोपितत्वात् । असमी
क्षिततत्त्वार्थः। अनपेक्षितस्तत्त्वार्थो वस्त्वर्थो येनेति विग्रहः। यथा लोके 72a बुद्ध्यारूढोप्यध्यवसिततद्भावतया प्रतीयते ॥
तं धर्मादिविभागन्तथैवेति यथालोकप्रतीतिः साध्यसाधनसंस्थितिविभिरवकल्प्यत इति सम्बन्धः। किमर्थं। परमार्थावताराय। अनित्यादिवस्तुस्वभावस्यावगाहनाय॥
किं पुनः कारणमेकत्वादिव्यवहारस्य वस्तुन्यसम्भव इत्याह । संसृज्यन्त इत्यादि । पारमार्थिका अर्थाः स्वतो न संसृज्यन्ते । ततो न सामान्यव्यवहारो वस्तुनि । न भि द्यन्ते कृतकत्वादिधर्मः प्रत्येकं तस्य वस्तुनोनेकत्वायोगात् । अतश्च तेष्वर्थेषु बहुषु रूपमेकमेकस्मिन्नर्थेऽनेकं रूपं यदध्यवसीयते तद्बुद्धेविकल्पिकाया उपप्लवो भ्रान्तिः। यतश्च न संसृज्यन्ते न भिद्यन्ते पारमार्थिका अर्थाः ।।
ततः कारणात् सामान्यमिदं बहूनां। तथा धर्माणां धर्मिणां च भेव इत्यपि योयम्भेदो नानात्वव्यवहारः स बौद्धर्थे। न बाह्ये स्वलक्षणे। बुद्धिप्रतिभासस्यालीकत्वात् (1) कथन्तर्हि तत्र स्वलक्षणे कृतकत्वादिधर्मभेद इति चेदाह । तस्यैव चेत्यादि। तस्यैव स्वलक्षणस्यान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते॥ __ कस्मात् कल्पितधर्मभेदद्वारेण गम्यगमकभावो न वस्तुदर्शनमात्रेणेत्यत आह । साध्येत्यादि। इदं साध्यमिदं साधनमित्यस्मिन् संकल्पे वस्तुदर्शनहानितः। यद्वा प्रत्यक्षवदनुमानेन सामान्यविशिष्टं स्वलक्षणमेव कस्मान्न गृह्यत इत्यत आह ।