________________
४. सामान्यचिन्ता यत्रास्ति वस्तुसम्बन्धा) यथोक्तानुमितौ यथा । नान्यत्र भ्रान्तिसाम्येपि दीपतेजो मणौ यथा ॥८३।। (तत्रैककार्योऽनेकोऽपि तदकार्यान्यताश्रयैः) । एकत्वेनाभिधाज्ञानैर्व्यवहारं प्रतार्यते ॥८४॥ तथानेककृदेकोपि तद्भावपरिदीपने । अतत्कार्यार्थभेदेन (नानाधर्मा) प्रतीयते ॥८५।। यथाप्रतीतिकथितः शब्दार्थोसावसन्नपि । सामान्याधिकरण्यश्च वस्तुन्यस्य न संभवः ॥८६॥
वस्तुलाभस्य च वस्तुप्राप्तेश्चाश्रयो न भवति व्यवहारः । न च सर्वः किन्तु यत्र व्यवहारेऽस्ति पारम्पर्येण तथा भूतवस्तुसम्बन्धः । उदाहरणमाह । यथोक्तानुमितौ यथेति। यथोक्तानुमितिः पूर्वोक्तानुमानविकल्पः। नान्यत्र स्थिरादिविकल्पे तत्र पारम्पर्येणापि वस्तुसम्बन्धाभावात्। वस्तुनोऽस्थिरादिरूपत्वात् । अनुमानविकल्पस्येतरस्य च स्वप्रतिभासेनर्थेऽर्थाध्यवसायद् भ्रान्तिसाम्येपि। वीपतेजो मणौ यथेति । यथा मणितेजसि मणिबुद्धिन्तिा । तथा दीपतेजस्यपितुल्येपि भ्रान्तत्वे मणिप्रभा मणित्वेन गृहीता मणावधिगन्तव्ये सम्वादिका। न तु दीपतेजः । तद्वत् स्थिरादिविकल्पो सम्वादक इत्यर्थः ।।
यदि ज्ञाननिविष्टानामेवार्थानां सामान्यादिव्यवहारः बाह्येष्वर्थेषु तहि सामान्यादिव्यवहाराभावात् प्रवृत्तिर्न स्यादित्यत आह । तत्रेत्यादि। तत्र शब्दो वाक्योपन्या से। निर्धारणे वा। तत्र व्यक्तिष्वेककार्या व्यक्तयो निर्झर्यन्ते। अनेकोप्येककार्यो यथा घटभेदा एवोदकाहरणादिकार्यास्तदकार्याय तथाभूतकार्यनुकुर्वते। तेभ्योन्यताव्यावृत्तिः सा आश्रयो येषां ज्ञानाभिधानात्तैरनेकोपि पदार्थ एकत्वेन व्यवहारम्प्रतार्यते। सामान्यव्यवहारं प्राप्यत इति यावत् ॥
तथेत्यनन्तरसामान्यव्यपेक्षया । एकोप्यनककार्यकृत् । यथा घटश्च चक्षविज्ञानोदकाहरणादिकार्यकृत् । तद्भावदीपने। अनेककार्यकर्ते त्वप्रकाशने। अतकार्येभ्यो भेदेन हेतुना। नानाधर्मा घटश्चाक्षुषः पार्थिव इत्यादि। तेन सामानाधिकरण्यविशेषणविशेष्यभावव्यवहारश्च बाह्येष्वेव दर्शितः॥
यदि बाह्येषु सामान्यादिव्यवहारः पारमार्थिकस्तहि प्राप्त इत्याह। यथाप्रतीतिकथितः इति। विकल्पबुद्ध्यनुरोधेन शब्दार्थः सामान्यलक्षण: परमार्थतोसावसन्नपि यथाप्रतीतिकथितः। सामानाधिकरण्यं च यथाप्रतीतिकथितं । यस्माद् वस्तुन्यस्य शब्दार्थस्य सामानाधिकरण्यस्य च न सम्भवः॥