SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १६० प्रमाणवात्तिकस्ववृत्तिटीका (११८२) व्यावृत्तमिव निस्तत्वं परीक्षानङ्गभावतः ॥७९॥ अर्था ज्ञाननिविष्टास्ते यतो व्या(वृत्तरूपिणः)। (तेन भिन्ना इवाभान्ति) व्यावृत्ताः पुनरन्यतः ॥८॥ त एव; तेषां सामान्यसमानाधारगोचरैः। ज्ञानाभिधानै(मिथ्यार्थो व्यवहारः) प्रतन्यते ॥८१।। स च (सर्वः) पदार्थानामन्योन्याभावसंश्रयः। तेनान्यापोहविष(यो वस्तुना तस्य चाश्रयः ॥८२।। 447a निःस्वभावं। किङ्कारणं (1) परीक्षानङ्गभावतः। अर्थक्रियासमर्थमेव परीक्षाङ्गमतः परीक्षानङ्गभावेनार्थक्रियां प्रत्यसमर्थत्वादित्युक्तम्भवति। यतश्च बुद्धिप्रतिभासि रूपन्निस्तत्त्वमतस्तद्विष यो व्यवहारो मिथ्यार्थ एव प्रवर्त्तते इत्याह॥ अर्था इत्यादि। ज्ञानविशिष्टा इति विकल्पबुद्ध्यारूढास्ते ज्ञानविशिष्टास्सन्तः यतो विजातीयाद् व्यावृत्तिरूपिणो व्यावृत्तिरूपवन्तः। यथानुत्पलाद् व्यावृत्तिरूपिण उत्पलार्थाः। तेनेत्यन्ततो व्यावृत्तिरूपेणोत्पलत्वेनाभिन्ना इवाभान्ति न परमार्थतो बुद्धिरूपस्यालीकत्वात् । एतेन सा मान्यव्यवहारस्य निमित्तमुक्तं । व्यावृत्ताः पुनरन्यतस्त एवेति (1) त एव ज्ञानविशिष्टा अर्था अन्यतो व्यावृत्तिरूपिणः सन्तः पुनरन्यतः सजातीयादपि व्यावृत्ता भान्ति। यथा त एव नीलभेदा अनीलात्। अतश्च व्यावृत्तिद्वयोपगृहीतस्यैकस्यार्थस्य भासनात् ॥ सामानाधिकरण्यबीजमुक्तं। तदेवाह। तेषामित्यादि। तेषामिति बुद्धिप्रतिभासिनामर्थानां व्यवहारः प्रतन्यत इति सम्बन्धः। तेषामिति व्यवहारापेक्षा कर्मणि षष्ठी। किंविशिष्टो मिथ्यार्थः। कै: करणभूतैरित्याह। सामान्येत्यादि। समानाधारत्वं समानाधारः। भावप्रधानत्वान्निर्देशस्य। सामान्यविषयः सामानाधिकरण्यविषयैश्च ज्ञानाभिधानः सामान्यगोचरैः सामान्यव्यवहारः प्रतन्यते। इतरैः सामानाधिकरण्यव्यवहारः ।। ___ यद्यपि शब्दज्ञानात्मक एवेह व्यवहारस्तथापि सव्यापारतामुपादाय ज्ञानशब्दयोः करणरूपता। तयोरेवार्थप्रकाशलक्षणा क्रिया व्यवहारत्वेन विवक्षितेत्यदोषः । यथा ज्ञानस्य प्रमाणत्वं फलत्वं वेति। स च सर्वः ज्ञानाभिधानलक्षणो व्यवहारः 7b पदार्थानां स्वलक्षणानां योन्योन्याभावः परस्परव्यच्छेदस्तत्संश्रयः। व्यावृत्तपदार्था नुभवद्वारेणोत्पत्तेः। तेनेत्यन्योन्याभावसंश्रयत्वेन स व्यवहारोन्यापोहविषय उच्यते न त्वन्यव्यावृत्तिविषयत्वात्। विधिविषयत्वादस्य व्यवहारस्य ॥
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy