________________
४. सामान्यचिन्ता
धर्मधर्मिणोर्भेदात् भेदवतीव बुद्धिः प्रतिभाति न वस्तुभेदात् । तथाभूतानां भेदानां बाहुल्यचोदनया साध्यसाधनभेदश्च ।
(ग) अपोहस्य विजातीयव्यावर्त्तकत्वम् तत्स्वभावसमाश्रयैर्धर्मप्रतिभासभेदैः तत्स्वभावप्रतिपत्तये क्रियते ॥
तत्स्वभाव (महाद्वा) धीस्तदर्थे वाप्यनर्थिका । विकल्पकाsतत्कार्यार्थभेदनिष्टा प्रजायते ॥७८॥ तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यतः ।
१८६
शब्देन चोदने व्यतिरिक्तस्यैव धर्मस्य ग्राहिण्या बुद्धेः प्रतिभासनात् । अविशेषेणेति सर्वभेदाप्रतिक्षेपेणापरमस्य बाह्यस्याप्रतिक्षिप्तभेदान्तरं स्वभावं धर्मितया व्यवस्थाप्य शब्देन प्रदर्श्यते ।
एतदुक्तम्भवति । धर्मशब्देन संचोद्य व्यतिरिक्तं धर्ममिव प्रदर्श्य पुनर्द्ध`मिशब्देन संचोद्यापरं स्वभावं धर्मितया व्यवस्थाप्य तदेव बाह्यं वस्तु प्रदर्श्यते । अनित्यत्वं शब्दस्य न चाक्षुषत्वम् (1) अनित्यो न चाक्षुषः शब्द इति । भावभावाऽशेनेति । भेदान्तरप्रतिक्षेपाप्रतिक्षेपेण धर्मधर्मणोर्भेदाद् भेदवतीव बुद्धिविकल्पिका प्रतिभाति भिन्नाकारेव । न तु वस्तुनो भेदः । न वस्तुभेदाद् भेदवती बुद्धि: ( 1 ) कुत: ( 1 ) यथोक्तदोषाद् अनुपकारिणि धर्मिणि धर्माणां पारतन्त्र्यायोगात् ।
तथा साध्यमनित्यत्वं साधनं कृतकत्वमिति (1) साध्यसाधनभेदश्चेत्यत आह । तथाभूतेत्यादि । तथाभूतानाम्प्रतिक्षिप्तभेदान्तराणां धर्मभेदानाम्बाहुल्यचोदनया वचनभेदः साध्यसाधनभेवश्च क्रियत इति सम्बन्धः ।
तस्य ततस्ततो व्यावृत्तस्य वस्तुनः स्वभावः समाश्रयो येषान्तैर्द्धर्मप्रतिभासभेवेविकल्पबुद्धिप्रति (वि) म्बैर्द्धर्मात्मकैः प्रतिभासभेदैरित्यर्थः । किमर्थं क्रियत इत्याह । तत्स्वभावेत्यादि । तस्यैव व्यावृत्तस्य वस्तुस्वभावस्य प्रतिपत्तये प्राप्तये वा ॥
प्रणालिकया तेषाम्वस्तुप्रतिबन्धात् प्रकृतस्यैवार्थस्य सुखग्रहणार्थं संग्रहश्लोकमाह । तत्स्वभावेत्यादि । तस्य वस्तुस्वभावस्यानुभवादूर्ध्वं या धीः प्रज्ञायते विकल्पिका । अपिशब्दो भिन्नक्रमः । अनर्थिकापि तदर्थेव । वस्तुविषयेव । अध्यवसायवशादतत्कार्येभ्यो यो भेदस्तनिष्ठा । तदनुभवबलोत्पत्तेर्व्यावृत्तस्य च वस्तुनः सम्वादात्तन्निष्ठेत्युच्यते ॥
तस्यामित्थं भूतायाम्बुद्धौ योर्थाकारः दृश्यविकल्पयोरेकीकरणाद् बाह्यमिव । सजातीयासु व्यक्तिषु समम्प्रतिभासमानमेकमिवान्यतो विजातीयाद् व्यावृत्तमिवाभाति । तत्तु व्यावृत्तमेव बुद्धिरूपस्यालीकत्वात् । तद्बुद्धिरूपं निस्तत्त्वं
न तु
71a