SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १८८ प्रमाणवात्तिकस्ववृत्तिटीका (११७७) प्रतिपादनेऽपि अभिन्नबद्धौ प्रतिभातीति सामान्यविशेषणविशेष्यभावसामानाधिकरण्यानि यथाप्रतीति न विरुध्यन्ते। 1धर्ममिभेदोऽप्यस्य अनेकस्मादाद भेदे (अपि) तस्य एकस्माद् भेदस्य विधिप्रतिषेधजिज्ञासायां तदेव वस्तु। प्रतीक्षिप्तभेदान्तरे धर्मशब्देन संचोद्य तथा बुद्धेः१ प्रतिभासनात् । व्यतिरिक्तधर्ममिव अविशेषेणारस्यापरं स्वभावं मितया व्यवस्थाप्य प्रदर्श्यते। तन्मात्रेण धर्मद्वयोपगृहीतमभिन्नमेकर्मितया बुद्धिप्रतिभासरूपं विकल्पबुद्धौ प्रतिभातीति कृत्वा सामान्यादीनि यथाप्रतीति न विरुध्यन्ते । - तेन यदुच्यते भट्टे न (1) "अन्यनिवृत्तिमात्रमपोहं गृहीत्वा अनीलादिव्यावृत्तावनुत्पलादिव्यावृत्तेरभावादनुत्पलादिव्यावृत्तौ चानीलादिव्यावृत्तेरभावाच्च न विशेषणविशेष्यभावस्तयोर्धर्मयोस्तदभावाच्च न तदाभिधायकयोः शब्दयोः 7ob शब्दयोरपि विशेषणविशेष्य भावः । नापि सामानाधिकरण्यं शब्दवाच्ययोभिन्न त्वात् (1) नापि यत्रार्थे पोहयोर्भावस्तद्द्वारकं सामानाधिकरण्यमवस्तुत्वेनापोहस्याधेयत्वाभावात् (1) न च स्वलक्षणं शब्दविषयोन्यच्चाधिकरणं नेष्यते । न च स्वलक्षणेपोहयो वेपि शब्दयोः सामानाधिकरण्यमेकविषयत्वस्याप्रतीतेरि"त्यपास्तं। बाह्यभिन्नस्य स्वाकारस्य शब्दादिविषयत्वेनेष्टत्वात् तेन नीलोत्पलादिशब्देषु शब्दार्थाभिधायित्वमिष्यत एवेति सर्वं सुस्थं । धर्मर्मिभेदोप्यस्य बुद्धिप्रतिभासस्य यथा प्रतीतिर्न विरुध्यत इति वचनपरिणामेन सम्बन्धः। तमेवानेकेत्यादिनाह। अनेकस्मादर्थाद् बुद्धिप्रतिभासस्यालीकत्वात्। कुतोनेकार्थभेद: केवलं पुरुषाध्यवसायवशादेवमुच्यते। तस्य बुद्धिप्रतिभासस्यकस्मादाद् यो भेवस्तस्य विधिप्रतिषेधजिज्ञासायां। किमनित्यः शब्दो भवति चाक्षुषो न भवतीति तदेव बुद्धिप्रतिभासभूतम्वस्तु प्रदर्श्यत इति सम्बन्धः (1) केन प्रकारेणेत्याह। प्रतिक्षिप्तेत्यादि। यद्वा धर्मर्मिभेदोप्यस्य वस्तुनो न विरुध्यत इति सम्बन्धः। कूत इत्याह। अनेकस्मादर्थाद् बाह्यस्य भेदसम्भवे सति तस्यैकस्माद् यो भेदस्तस्य विधिप्रतिषेधजिज्ञासायां किमनित्यः शब्दो भवति चाक्षुषो न भवतीति तदेव बाह्यम्वस्तु प्रदर्श्यत इति सम्बन्धः। केन प्रदर्यत इत्याह। प्रतिक्षिप्तेत्यादि। धर्मशब्देन संचोद्य व्यतिरिक्तं धर्ममिव व्यवस्थाप्येति सम्बन्धः। तथा ह्यनित्यत्वन्न चाक्षुषत्वमिति धर्मशब्देन चोदने कृते व्यतिरिक्त इवानित्यत्वादिको धर्मो व्यवस्थापितो भवति। किङ्कारणमित्याह। तथा बुद्धेः प्रतिभासनात् । धर्म 1Blo-la. 2 Bye-brag-tu-ma-phye-bar.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy