________________
४. सामान्यचिन्ता
१८७ विषयत्वस्य एकत्वे सर्व तथैवास्तु । ग्रहणे तथा भिन्नोपाधिमत एकस्याभासनात् । ___उपकार्योपकारकयोरुपाधि तद्वतोरपि सहस्थितिकत्वाददोष इति चेत् । न। निष्पत्तौ पारतन्त्रयाभावात् अनुपाधित्वम्। न चानिष्पत्तिः, स्वभावानिश्चयात् । सर्वथा पारतंत्र्याभावात् कल्पनयारोप्य सर्वत्र व्यवहारे च सैव बुद्धिः किन्न अनुविधीयते ? वस्तुन एकेन शब्देन प्रमाणेन च विषयीकरणे वस्तुबलात् अशेषविशेषाक्षेपात्, तदन्यवैयर्थ्य च न स्यात् । बुद्धिप्रतिभासस्य निर्वस्तुकत्वात् वस्तुसामर्थ्यभाविनामप्रसंगः। तदभिन्नं एकाकारस्य विषयीकरणेऽपि आकारान्तरेऽनिश्चयात्', आकारान्तरे साकांक्षया बुद्ध्या ग्रहाम्। भिन्नस्य शब्दार्थस्य 446b
निष्पन्नस्य शशविषाणतुल्यस्य पारतन्त्र्यमुपाधित्वम्वा (1) सर्वथा सतोऽसतश्चासत्पारतन्त्र्यमिति हेतोः कल्पनारोपितमुपाधीनाम्पारतन्त्र्यं कृत्वा पारतन्त्रयव्यवहारे । सर्वथेति सर्वेण प्रकारेण यथा पारतन्त्र्यव्यवहारे बुद्धिरनुविधीयते • तथा विशेषणविशेष्यव्यवहारे सैवारोपिका बुद्धिः किन्नानुविधीयते। तदनुविधानं हि न्याय्यं बुद्धिसन्दर्शितार्थप्रतिभास मनाश्रित्य व्यवहर्तुमशक्यत्वात् । वस्तुन एकेन शब्देन प्रमाणेन च विषयीकरणे वस्तुबलाद्वस्तुस्वभावभूताशेषधर्माक्षेपात् तवन्यस्य शब्दादेर्वैयर्थं च यत्प्रागुक्तमेकस्यार्थस्वभावस्म प्रत्यक्षस्येत्यादि ।
व स्तु वा दि पक्षे तद्बुद्धिप्रतिभासानुरोधेन स्यात् । किं कारणं (1) बुद्धिप्रतिभासस्य निर्वस्तुकत्वाद् वस्तुसामर्थ्य भाविनान्दोषाणामप्रसङ्गः। बहुवचनेनैतदाह । न केवलं तदन्यवैयर्थ्यदोषस्याप्रसङ्गस्तथा व्यतिरिक्तस्य सामान्यस्याभाव उपाधीनां च पारतन्त्र्यायोगात्।
विशेषणविशेष्यत्वाभावः भिन्नोपाधिमत एकस्य बुद्धावप्रतिभासनात् (।) सामानाधिकरण्याभावश्च य उक्तस्तेषामप्यत्र सम्भवो नास्तीति तदेवाह। तदभिम्नमित्यादि। तथा हि तद्बुद्धिप्रतिभासि रूपमभिन्नम्प्रतिभाति । तस्मात् सामान्यं यथा.प्रतीतिर्न विरुध्यत इति वचनपरिणामं कृत्वा वक्ष्यमाणेन सम्बन्धः। नीलमित्युक्तेऽनीलव्यावृत्त्या नीलत्वस्यकस्याकारस्य विषयीकरणेपि विकल्पबुद्धया तत्रैव नीलाकारे संशयव्यावृत्तिर्नाकारान्तरे (1) ततस्तद्बुद्धिप्रतिभासि रूपमनिश्चिताद्याकारमनुत्पलव्यावृत्तोत्पलाकारस्यानिश्चयात् । यस्मिन्नाकारे निश्चयो नोत्पन्नस्तदाकारान्तरन्तत्र साकांक्षयोत्पलशब्दप्रयोगाद् उत्पन्नया बुड्या ग्राह्यं प्रतिभातीति सम्बन्धः ।
एतेन विशेषणविशेष्यभावस्य निमित्तमुक्तं (1) सामानाधिकरणस्याह । भिन्नेत्यादि। भिन्नस्य शब्दार्थस्य नीलोत्पललक्षणस्योपसंहारे प्रतिपादनेपि ।