________________
१८६
प्रमाणवार्तिकस्ववृत्तिटीका ( ११७७ )
गात् न विशेषः । पारतंत्र्येऽपि जन्यजनकभावेन सहानवस्थितेः द्वयोरनभिधानम् । बुद्धा एकस्याध्याहारो न वस्तुविषयः शब्द ( र्थः ) स्यात् । बुद्धिप्रतिभास
तदुपाधेरित्यादिना पराभिप्रायमाशंकते । ते नीलादयो धर्मा उपाधिर्यस्य द्रव्यस्य तस्यैकस्य द्वाभ्यां गुणजातिभ्यामभिधानाद् अवोषः । सामानाधिकरण्याभावदोषो नास्ति । उत्तरमाह (1) अनुपकारिणीत्यादि । उपाधित्वेनाभिमतानां नीलादीनां धर्माणामनुपकारकन्द्रव्यं । न हि नीलगुणस्योत्पलत्वजातेर्वा द्रव्येणोपकारः कश्चिद् क्रियते (1) ततश्चानुपकारिणि द्रव्ये तदनाधेयवृत्तीनां नीलादीनां पारतन्त्र्यायोगात् । नीलादयो धर्मा अनुपाधिः । पारतन्त्र्याभावात् । अन्यथाऽस्यायमुपाधिरित्येव न स्यात् । अथेष्यते द्रव्यविषयं पारतन्त्र्यं धर्माणान्तदा पारतन्त्र्येपि द्रव्यजन्यत्वमङ्गीकर्त्तव्यमन्यथा द्रव्यपारतन्त्र्यायोगात् । जनकं च क्षणिकमेष्टव्यमक्षणिकस्यार्थक्रियायोगात् । ततश्च कार्यभिमतानामुपाधीनां कारणाभिमतस्य च द्रव्यस्य सहानवस्थितेः कारणात् । द्वयोर्विशेषणविशेष्ययोर्वस्तुरूपयोर्युगपदनभिधानं (1) कारणाभिमतस्य विशेषस्य तदानीं निरोधात् । एकस्येति विशिष्टस्याप्युपाधिमतः । अध्याहार उपदर्शनन्तदा न वस्तुविषयः शब्दार्थः स्यात् । बुद्धयारोपितस्यैव विशेषस्य शब्देनाभिधानात् ।
स्यान्मतं ( 1 ) यद्विनष्टं विशेष्यन्तद्विषयस्य शब्दस्य भवतु बुद्धिप्रतिभासविषयत्वं ( 1 ) यः पुनः सन्नेवोपाधिस्तद्वाचिनः शब्दस्य वस्तुविषयत्वमेवास्त्विति चेदाह । बुद्धिप्रतिभासेत्यादि । बुद्धिप्रतिभासो विषयो यस्याभिधानस्य तत्तथा (i) तद्भावस्तस्मिन् सति सर्वं विशेषणविषयाभिमतमप्यभिधानन्तथैव विकल्पबुद्धिप्रतिभासविषयमेवास्तु । किं कारणं ( 1 ) तथा भिनोपाधिमतो नानाविशेषणवत एकस्य ग्रहणे बुद्धावभासनात् । तथा ह्युपाधिमतो विनष्टस्याध्याहारिका विकल्पबुद्धिरङ्गीकर्त्तव्या ( 1 ) तदा चोपाधिमतोऽभावे उपाधेरप्यभावः _पारतन्त्र्याभावात् ( 1 ) भिन्नोपाधिमत एकस्याप्रतिभासने कुतः सामानाधिकरण्यं ।
यदा तु विशेषणविशेष्ययोर्द्वयोरपि विकल्पबुद्धिप्रतिभासित्वमिष्टन्तदा 702 कल्पित धर्मद्वयगृहीतैकध' मिप्रतिभासिन्येकैव बुद्धिर्जायत इत्यविरुद्धं सामानाधिकरण्यं ।
उपकार्येत्यादिना पराभिप्रायमाशंकते । अदोषो योयमेकस्य बुद्धयाध्याहार इत्यादिनोक्तः । उपाधिमता समकालस्य निष्पन्नरूपस्योपाधेः पारतन्त्र्याभावादनुपाधित्वं । प्राक् पारतन्त्र्यन्तदेवोपाधित्वमिति चेदाह । नेत्यादि ।
न ह्य