________________
४. सामान्यचिन्ता
१८५
तथा प्रतिभासनात्। वस्तुनस्तु नानकव्यतिरेक ग्रहो विभ्रमः। एककार्यकारिण- 446a स्तस्य तथा (भाव) जिज्ञासासु तथाभावख्यापनाय तथा व्यवस्थापितत्वात्।। न वस्तुभेदात् । तस्यैवैकस्य अनेक त्वायोगात् अनेकस्य चैकत्वायोगात्, व्यतिरिक्तस्य निषेधात् । तेषां प्रकृतेर्भेदात् यथावस्तु शब्दार्थाभ्युपगमे सामानाधिकरण्यायोगात्।
तदुपाधेरेकस्याभिधानात् अदोष इति चेत्। अनुपकारिणि पारतंत्र्यायो
वस्तुधर्म एवानित्यत्वादिकं ख्याति। कस्तर्हि विकल्पकृतो विभ्रम इत्याह । वस्तुनस्त्वित्यादि। एकस्य वस्तुनो नानारूपेण ग्रहः। बहूनां चैकत्वेन । धर्मधमिणोश्च व्यतिरेकेण ग्रहो विभ्रमो भ्रान्त इत्यर्थः। किं पुनः कारणमेकत्वादिग्रहो विभ्रम इत्याह। तस्यैकानेकेत्यादि। एककार्यकारिणो घटादिभेदस्यकोदकाद्याहरणादिकार्यकारिणः । तथा भावजिज्ञासासु । एककार्यकर्तृत्वजिज्ञासासु। तथाभावख्यापनायैककार्यकारित्वख्यापनाय। तथाकृतस्थितित्वात्। घटादिना एकरूपेण व्यवहारलाघवार्थम्व्यवस्थापितत्वात्। तथकस्याप्यनेकार्यकारिणः। यथा घटस्य चक्षुर्विज्ञानोदकधारणकादाचित्कज्ञानादिकार्यकारिणस्तथाभावजिज्ञासासु तथाभावख्यापनाय। अनेककार्यत्वख्यापनाय तथाकृतस्थितत्वात् । चाक्षुषपार्थिवानित्यादिरूपेण व्यवस्थापितत्वात्। एवमन्यत्रापि यथायोगं वाच्यं । न वस्तुभवाद् एकस्मिन् पदार्थेऽनेकधर्मव्यवस्थापनं। किङ्कारणं (1) तस्यैवैकस्य वस्तुनोऽनकत्वायोगात् (1) ततश्चैकस्यानेकत्वग्रहो विभ्रम इत्याख्यातं। तथानेकस्याप्येकत्वव्यवस्थापनन्तदकार्यव्यावृत्तिद्वारेणैव न वस्त्वभेदादित्याह। अनेकस्य चैकत्वायोगादिति'। तथा चानेकस्यैकत्वग्रहो विभ्रमः । एवं धर्मधर्मिणोर्व्यतिरेकग्रहोपि 69b भ्रान्त एव। किङ्कारणं (1) व्यतिरिक्तस्य च सामान्यस्य प्रागेव निषेधात् । व्यक्तयो नानुयन्त्यन्यदित्यादिना। ___धर्मिणः सकाशाद् व्यतिरिक्ता एव धर्मास्ततश्च यथावस्तु शब्दार्थो भविष्यतीत्याह । तेषामित्यादि। तेषामनित्यत्वादीनां धर्माणां प्रकृतेः स्वभावस्य भेदात् कारणाद् यथावस्तु शब्दार्थाभ्युपगमे नीलोत्पलमनित्यः शब्द इत्यादि सामानाधिकरण्यायोगात् । नीलादिगुणानामुत्पलादिजातीनाञ्च परस्परं स्वभावभेदात् । तद्वाचिनां शब्दानामेकस्मिन्नधिकरणे वृत्ति स्तिीति सामानाधिकरण्यायोगः । तस्मान्न यथावस्तु शब्दार्थव्यवस्थेति भावः ।
1 De-ltar-bzag-pahi-phyir.
२४