________________
१८४
प्रमाणवात्तिकस्ववृत्तिटीका (१७७) नापि स्वलक्षणस्य अनित्यत्वाद्यभावः। एवं चलाद् वस्तुनो नानित्यत्वन्नाम किंचिदस्ति। क्षणस्थायित्वेन तथाभूतस्य ग्रहणाद् तेषां भवति 'अयं अनित्यः' 'अनित्यत्वमस्य'। तद्धर्मतामेवावतरन्तो विकल्पा नानेक धर्मव्यतिरेकं दर्शयन्ति। न च ते निराश्रयाः। तद्भेददर्शनाश्रयत्वात्। न चावस्तुधर्मता। तत्स्वभावस्यैव
नामिव प्रतिभासनात् । यच्चोक्तं (1) स्वलक्षणे चानित्यत्वाद्यप्रतीतेरताद्रूप्यमिति तत्परिहारार्थमाह। नापीत्यादि। चलाद् वस्तुनो यस्मान्नानित्यत्वन्नाम किञ्चदस्ति। येनासम्बद्धात् स्वलक्षणस्यानित्यत्वेनायोगः स्यात्। किन्तु चलमेव वस्तु नित्यं स्वलक्षणस्यैवानित्यरूपत्वादेवमनात्माद्यपि द्रष्टव्यं । तेन प्रत्यक्षेण स्वलक्षणे गृह्यमाणेऽनित्यत्वं गृहीतमेव केवलं भ्रान्तिनिमित्तसद्भावादनिश्चितम् (1) अतस्तन्निश्चयमात्रेऽनुमानव्यापारस्तेन तन्निश्चय एव स्वलक्षणेऽनित्यत्वप्रतीतिरिति सिद्ध।
यदि स्वलक्षणमेवानित्यं कथमनित्योयमर्थोऽनित्यत्वमस्येति वा धमिधर्मरूपतया प्रतीतिरित्यत आह। क्षणेत्यादि । स्वलक्षणस्य तथाभूतस्येति चलरूपस्य क्षणाप्रत्युपस्थानतया। एकक्षणस्थायित्वेन ग्रहणाद् उत्तरकालमन्त्यक्षण
दर्शिनामेतदेवम्भवत्यनित्योयमित्यादि। भेदान्तराप्रतिक्षेपविवक्षायामनित्योयमिति 69a भेदान्तरप्रतिक्षेपविवक्षायामनित्यत्वमस्येत्येवं धर्मिधर्मभाव'प्रतीतिर्भवति ।
विकल्पकल्पितत्वात् कथं बाह्ये धर्ममिभाव इत्यत आह। तद्धर्मतामित्यादि। तद्धमतां स्वलक्षणधर्मतामेवावतरन्तः स्वलक्षणमध्यवस्यन्तो विकल्पा इत्यर्थः । व्यावृत्तिभेदे कृतसंकेतशब्दानुसारेण नानारूपा एकरूपाश्च धर्मास्ते च व्यतिरेकाश्चेति द्वन्द्वः। नानाधर्मान् अनित्यकृतकत्वादीन् । एकं धर्म बहूनां घटादीनामनित्यत्वं व्यतिरेकश्च घटादीनामनित्यत्वमिति दर्शयन्ति। वस्तुनीत्यध्याहारः। न च विकल्पव्यवस्थापितन्नानकधर्मादिकन्तत्त्वम्विकल्पस्यावस्तुग्राहित्वाद् (1) अत एवाह (1) दर्शयन्तीति। ____ अवस्तुग्राहित्वात्तर्हि ते निराश्रयाः प्राप्नुवन्तीति चेदाह। न च त इति । न इति नानाधर्मादिदर्शका विकल्पवस्तुभेदस्यानित्यादिरूपस्य स्वलक्षणस्य यद् दर्शनमनुभव स्तदाश्रयत्वाद् विकल्पानां। तथा हि परमार्थतोऽनित्यादिरूपं स्वलक्षणं दृष्ट्वा दर्शनसामर्थ्य भाविनो विकल्पा दृष्टाकाराध्यवसायेन प्रवर्तन्ते। यतश्च यथादृष्टस्यैवाभिलपनेन प्रवर्तन्ते विकल्पा अनित्याकारा नार्थान्तरन्नित्यत्वादिविकल्पवदनुसरन्ति । ततो यदुक्तं (1) तेषां चावस्तु धर्मतेति परिहृतम्भवतीत्याह। नेति। तेषामनित्यत्वादीनां नावस्तुधर्मता। किं कारणं । तत्स्वभाबस्यैव तथाऽनित्यादिधर्मतया ख्यातेः प्रतिभासनादध्यवसायादिति यावत् । यदि