________________
। ४. सामान्यचिन्ता
१८३ सतामपि बुद्धचा उपदर्शनात्। मिथ्यार्थ एव सामान्यसामानाधिकरण्यव्यवहारः। सर्वश्चायं स्वलक्षणानामेव दर्शनाहितवासनाकृतायातत्वात्। तत्प्रतिबद्धजन्मनां विकल्पानामतत्प्रतिभासित्वेऽपि वस्तुनि प्रवत्तिः, मणिप्रभायामिव मणिभ्रान्तेः, नान्येषाम् । तद्भेदप्रभवे सत्यपि यथादृष्टविशेषानुसरणं परित्यज्य किंचित्साम्यग्रहणेनाऽन्यसमारोपात्। दीपप्रभायामिव मणिबुद्धेः। तेन न विकल्पविषयेष्वर्थक्रियाकारित्वम्।
दर्शनात् । एकाकारेण प्रतिभासनात् सामान्यव्यवहारः । अनेकाकारेण चैकस्य प्रतिभासनात् सामानाधिकरण्यव्यवहारः ।
यदि मिथ्यार्थ एव सर्वो विकल्पः कस्मात् कृतकत्वादि द्वारायाता अनित्याऽनात्मादिविकल्पाः प्रमाणं नित्या विकल्पास्तु नेत्यत आह। सर्वश्चायमित्यादि। सर्वो विप्लव इति सम्बन्धः। विप्लवो भ्रान्तिः। अयमिति सामान्यादिरूपः । स्वलक्षणानामेव यद्दर्शनन्तेनाहिता या वासना तत्कृतः। परम्परया सर्वविकल्पानाम्वस्तुदर्शनद्वारायातत्वात् । तथा हि नित्यादिविकल्पा अपि' वस्तुदर्शनेनैवो- 68b त्पन्नाः सदृशापरापरोत्पत्तिदर्शनायातत्वात्। तत्र तुल्ये सर्वविकल्पानाम्वस्तुदर्शनद्वारायातत्वे। तत्प्रतिबद्धजन्मनामनित्यादिविकल्पानामतत्प्रतिभासित्वेपि स्वलक्षणाप्रतिभासित्वेपि वस्तुन्यविसम्वादः। अध्यस्तस्यानित्यादिरूपस्य वस्तुनि विद्यमानत्वात् केवलं स्वलक्षणरूपेण न प्रतिभासत इति विकल्पो विभ्रम उच्यते। मणिप्रभायामिव मणिभ्रान्तेर्मणिस्वरूपाग्रहेप्यविसम्वादो मणिप्रभाया मणी प्रतिबद्धत्वात्। प्रभाश्रयेण च मणिभ्रान्तेरुत्पत्तेः। ___न त्वेवन्नित्यादिविकल्पास्तेषाम्वस्तुदर्शनद्वारायातत्वेपि वस्तुन्यविद्यमानस्यैवाकारस्य समारोपात्। तदाह। नान्येषामित्यादि। अन्येषां नित्यादिविकल्पानां वस्तुनि सम्वाद इत्यनेन सम्बन्धः। तभेदप्रभवे सत्यपीति । अर्थाभेदाद उत्पादेपि सतीत्यर्थः। यथा दृष्टो यो विशेषः क्षणिकत्वादिलक्षणस्तस्यानुसरणं निश्चयं परित्यज्य किञ्चित्सामान्यमिति व्यतिरिक्तस्याव्यतिरिक्तस्य वा सामान्यस्य ग्रहणेन विशेषात्तस्य स्थिरत्वादेः समारोपात्। दीपप्रभायामिव भासुरत्वादिसाम्यात् प्रवृत्ताया मणिबुद्धेर्न मणिवस्तुसम्वादः। पारम्पर्येणाप्यध्यवसिते मणावप्रतिबद्धत्वात्। यतश्च मिथ्यार्था एव विकल्पास्तेन न विकल्पविषयेष्वर्थेष्वर्थक्रियाकारित्वं (1) ततश्च यदुक्तमन्यतो वा कथमर्थक्रियेति तत्सिद्धं साध्यते। __ कथन्तीतत्कारिव्यवच्छेदलक्षणं सामान्य विकल्पविषयेष्वर्थेषु व्यवस्थाप्यत इति चेत् । न। बहिरिव परिस्फुरतामेकार्थक्रियाकारितया तदकारिभ्यो भिन्ना