SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८२ प्रमाणवात्तिकस्ववृत्तिटीका (१७७) 445b कारित्वेनेति तत्कारित्वेन प्रतिभाति । अन्यथा प्रवृत्तिर्न युक्ता 'स्यात्। तच्चार्थ क्रियाकारितया प्रतिभासते। तदतत्कारिभ्यो भिन्नमिव। न हि तस्याऽपि तत्त्वमिति वाच्यं परीक्षानङ्गत्वात्। बुद्धिस्थास्तेऽस्तेिन समाना इति गृह्यन्ते। कुत श्चित् व्यावृत्त (इव) प्रतिभासनात्। न च स्वलक्षणं, तत्राप्रतिभासनात् । त एव कुतश्चित् व्यावृत्ता अभिन्ना अपि व्यावृत्तिमन्तः प्रतिभान्ति । स्वयम व्यवहारिणां प्रवृत्तः। व्यवहारिभिरित्यन्ये पठन्ति। व्यवहारिभिरित्यध्यवसायेत्यनेन पूर्वसम्बन्धात् तृतीयैव कृता। न तु षष्ठी। न लोकाव्ययनिष्ठेति'. षष्ठी प्रतिषेधात्। अन्यथेति यदि विकल्पांशे बाह्याध्यवसायो न भवेत्तदा तथाभूते विकल्पे जातेप्यर्थक्रियाकारिणी प्रवृत्तिर्न स्यात् । तदपि विकल्पप्रतिबिम्बकं व्यवहत पुरुषाध्यवसायवशादर्थक्रियाकारितया प्रतिभासते। ततश्च तदतत्कारिभ्यो भिन्नमिव । विकल्पप्रतिविम्बकमेव तत्त्वं कस्मान्नेति चेदाह। न चेत्यादि। तद्विकल्पप्रतिविम्बकन्न तत्त्वं न वस्तु। किङ्कारणं (1) अनर्थक्रियाकारित्वेन परीक्षाया व्यभिचारस्यानङ्गत्वात्। एतच्चानन्तरमेव प्रतिपादयिष्यामः। ___ तत्र ये स्वलक्ष (ण) द्वारा याता अर्थाकारा विकल्पबुद्धौ प्रतिभान्ति तेऽर्था विकल्पबुद्धिप्रतिभासिनस्तेन भेदलक्षणेन सामान्येन समाना इति गृह्यन्ते। कुतश्चिद् व्यावृत्ता(इ)ति विजातीयव्यावृत्त्या। तथा हि (।) विकल्पप्रतिभासिनोपि वृक्षभेदा अध्यवसितबाह्यरूपत्वाद् अवृक्षेभ्यो व्यावृत्ता इव भासन्ते। तथान्येति। न स्वलक्षणन्तेन समानमिति गृह्यत इति लिङ्गवचन (वि)परिणामेन सम्बन्धः । किङ्कारणं (1) तत्र सामान्यप्रतिभासिनि विकल्पे स्वलक्षणाप्रतिभासनात् । एवन्तावद् बुद्धिप्रतिभासिन्यर्थे सामान्यव्यवहार उक्तः। संप्रति सामानाधिकरण्यव्यवहारमाह। त एवेत्यादि। त एव विकल्पप्रतिभासिनोर्थाः । कुतश्चिद् व्यावृत्ता इव सन्तो यथानुत्पलाद् व्यावृत्ता उत्पलभेदास्त एव पुनरन्यतोप्यनीलाद् व्यावृत्तिमन्तः प्रतिभान्ति (1) ततश्च व्यावृत्तिद्वयानुगतस्यैकस्यैव धर्मिणः प्रतिभासनात् सामानाधिकरण्यं । ___ अयं चानन्तरानुक्रान्तो बुद्धिप्रतिभासिष्वर्थेषु सामान्यसामानाधिकरण्यव्यवहारो मिथ्यार्थ एव क्रियते। किं कारणं (1) स्वयमसतामपि विकल्पाकाराणान्तथा एकाकारानुगतत्वेन । व्यावृत्तिद्वयानुगतेन धर्मस्वरूपेण। विकल्पबुद्धचोप 1 Panini 2: 3:69.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy