SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता १८१ स्वलक्षणे चानित्यत्वाद्यप्रतीतेरताद्रूप्यं तेषां चावस्तुधर्मता चेत् । नैष दोषः । ज्ञानप्रतिभासिन्यर्थे सामान्यसामानाधिकरण्यधर्मर्मिव्यवहाराशंका। वस्तुस्वभावग्रहणेन अनुभवाहितवासनां आश्रित्य यदेतत्. विकल्पज्ञानं उत्पन्नं तच्च अतद्विषयमपि तद्विषयमिव तदनुभवाहितवासनाप्रभवप्रकृतेः अध्यवसिततद्भावं स्वभाववत्। अभिन्नकार्यपदार्थेभ्यः प्रसूतेरभिन्नार्थग्राहीव। परमार्थतस्तु तदन्यभेदसमाकारम् । तदन्यभेदस्य समानाकारः। तत्र अर्थाकारश्च व्यवहारिणां तथाऽध्यवसाय प्रवृत्तः, बाह्यत्वेनैकत्वेनार्थ ततश्चातत्कारिभ्यो भेदादभिन्ना इत्यच्यन्त इति कार्यद्वारेण सामान्यव्यवस्था न घटते। यतश्च बुद्धिपरिवत्ति रूपं समानन्ततः स्वलक्षणे चानित्यत्वादिसामान्यस्याप्रतीतेरताद्रूप्यमनित्यादिरूपत्वं स्वलक्षणस्य न भवेत्। स्वलक्षणे चानित्यत्वादीनामप्रतीतेस्तेषां चानित्यत्वादीनामवस्तुधर्मता। . नेत्यादिना परिहरति । बुद्धिप्रतिभासिन्येव रूपे सामान्यादिव्यवहार इत्ययं पक्षो गृहीतः। तदाह। ज्ञानप्रतिभासिन्यर्थ इत्यादि। एतच्च ग्रहणकवाक्यं । अस्यैव व्याख्यानं। यदेतज्ज्ञानं विकल्पकमित्यनेन सम्बन्धः। अतद्विषयमपि वस्तुस्वभावविषयमपि तद्विषयमिव स्वलक्षणविषयमिव। अध्यवसिततद्भावमारोपितबाह्यभावं स्वरूपं यस्य तत्तथा। यतश्चाध्यवसिततद्भावमतः स्वलक्षणविषयमेवेति मन्यते। अध्यवसिततद्भावस्वरूपत्वमेव कथमिति चेदाह। तदनुभवाहितवासनाप्रभवप्रकृतेरिति (1)तस्य स्वलक्षणस्य योनुभवस्तेनाहिता वासना ततः प्रभव उत्पादस्तस्य सामान्यस्य सा प्रकृतिः स्वभावो येनाध्यवसितभावस्वरूपम्भवतीत्यर्थः। अभिन्नकार्या ये पदार्था घटादयः। एकाकारप्रत्ययज्ञानहेतवस्तेभ्यः परम्परया प्रसूतेरभिन्नार्थग्राहीव प्रतिभाति। न तु सामान्यवस्तु भूतं किचिद् व्यतिरिक्तमव्यतिरिक्तम्वाऽस्ति यत् तद् गृह्णीयात् । परमार्थतस्तु तदन्यभेदसमाकारं तेभ्यः सजातीयाभिमतेभ्योऽन्ये विजातीयास्तेभ्यो भेद: भिन्नः स्वभावः स एव परमार्थेन समान आकारो यस्येति विग्रहः। तत एव तस्योत्पत्तेस्तन्निवर्त्तनत्वाच्च तदन्यभेदस्तस्य समान आकार इत्युच्यते । तत्रानन्तरोक्ते ज्ञा'ने एक इवेति सर्वव्यक्त्यनुगत इव। तत्कारीवेत्यर्थ- 68a. क्रियाकारीव। किं पुनस्तथा प्रतिभातीति चेदाह। व्यवहारिणामित्यादि । तथाध्यवसायेति विकल्पांशमेव बाह्यत्वेनैकत्वेनार्थक्रियाकारित्वेनाध्यवसाय 1Nes-pa. 2 Hdogs-te.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy