________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १।७७ )
देशकालसंस्कारक्रियासामर्थ्यात् विशिष्टोत्पत्तिका विशेषवत् कार्यकारीति न विरोधः । तद्वत् तत्र केचित् च (स्व) भाव - भेदेऽपि एकप्रत्यभिज्ञानादिकं अर्थक्रियाकरणे तदकारिभ्यो भेदाद् वा एकेन वा नानोत्पादेऽतज्जन्येभ्यो भेदाद् अभिन्ना इति ।
१८०
किं पुनर् भेद लक्षणेन सामान्येन स्वलक्षणं समानमिति प्रत्येयं, अथान्यदेवेति चेत् । किंचातः । यदि स्वलक्षणं कथं विकल्पविषयः अन्यतो वा कथमर्थक्रिया ।
विशेषवत् कार्यं ज्वरादिशमनलक्षणं । न च तासु व्यक्तिषु यच्छीघ्रकारित्वादिलक्षणमवान्तरसामान्यमवस्थिन्तदेव विशेषवत् कार्यकारीति युक्तम्वक्तुं । ओषध्यनुपयोगेपि पुंसः तत्कार्योदयप्रसङ्गात् । तद्वदिति विशिष्टव्यक्तिवत् । केचिदिति सजातीया एकप्रत्यभिज्ञानादिकं । आदिशब्दाद् एकोदकाद्याहरणादि । तदकारिभ्य इति । प्रत्यभिज्ञानाद्यकारिभ्यो भेदादभिन्ना इत्युच्यन्ते । न त्वेकसामान्ययोगात् ।
कार्यद्वारेणाभेदं प्रतिपाद्य कारणद्वारेणाह । एकेन वेत्यादि । यथा प्रयत्नेन घटभेदा अतज्जन्येभ्य इत्यप्रयत्नजन्येभ्यो भेदादभिन्ना इत्युच्यन्ते । यद्यपि प्रतिघटं प्रयत्नस्य भेदस्तथाप्येकप्रत्यभिज्ञानहेतुत्वेन तस्याप्येकत्वं । एतच्चोत्तरत्र निश्चाययिष्यते ।
किम्पुनरित्यादि परः । भेदो व्यावृत्तिर्लक्षणं निमित्तं यस्य तेन सामान्येना67b तत्कार्येभ्योऽतत्कारणेभ्यश्च व्यावृत्तं स्वलक्षणं समानमिति प्रत्येयं । अन्यथान्यदेवेति विकल्पबुद्धिपरिवत्तिरूपमनर्थक्रियाकारि । तेन भेदलक्षणेन
स्वलक्षणादन्यद्
सामान्येन समानमिति प्रत्येयं ।
ननु तदेषां बुद्धिप्रतिभासमनुरुन्धानैर्बुद्धिविपरिवर्तिनामेव भावानामाकारविशेषपरिग्रहाद् बहिरिव परिस्फुरतां सामान्यमुच्यत इति पूर्वमुक्तत्वात् सन्देहानुवृत्तिरेव ।
सत्यं । किन्त्वधिकस्य दोषस्य विधानार्थं उपन्यासः । दोषविज्ञानार्थमाह । किचात इति । इतरो यदीत्यादिना प्रश्नाभिप्रायमाह । यदि स्वलक्षणं प्रत्येयं कथं विकल्पविषयः । तथा हि विकल्पबुद्ध्यभिप्रायवशाद् भेदलक्षणं सामान्यं व्यवस्थाप्यते तस्या अभिप्रायवशात् । सामान्यं सत्प्रकीर्तितमिति वचनात् । तथाभूतेन चेत् सामान्येन स्वलक्षणं समानं प्रत्येयं । तदा विकल्पस्य विषयः स्यात् । न चैतद् युक्तमथान्यदेव बुद्धिपरिवत्ति रूपं समानमिति प्रत्येयं । अत्रापि दोषमाह । अन्यतो वा कथमर्थक्रिया ( 1 ) न हि बुद्धिप्रतिभासिरूपाद् अर्थक्रिया सम्भवति ।