________________
४. सामान्यचिन्ता
१७६ कार्य स्याद् (इति) मतं चेत् ।' ___ तवयुक्तं, अविशेषात् सामान्यं न तत्कार्यकृद् ॥
अविशेषान्न सामान्यमविशेषप्रसङ्गतः ।
तासां क्षेत्रादिभेदेऽपि ध्रौव्याच्चानुपकारतः ॥७॥ सामान्यात् ज्वरादिशमनकार्य स्यात् चेत्, तस्य विशेषाभावात् व्यक्तीनां क्षेत्रादिभेदेऽपि शीघ्रप्रशमनघटादेः विशेषो गुणस्य तारतम्यं च न स्यात्। अथ सामान्य विशषोऽस्ति चेत्, स्वभावभेदाद् स्वरूपहानम् । ध्रौव्याच्चांनुपकारतः सामान्यं (न कार्यकृद्)। यदि हि तद् उपकुर्यात्, अनाधेयविशेषस्य अन्यानपेक्षणत्वात् स्वकार्य सर्व सकृज्जनयेत्' तज्जननस्वभावं वा न भवति । व्यक्तयस्तु 445a
“निर्वर्त्यमानं यत्कर्म जातिस्तत्रापि साधनं ।
स्वाश्रयस्याभिनिष्पत्त्यै सा क्रियायाः प्रयोजिके"ति । तत एव सामान्यात् तदेकं ज्वरादिशम नलक्षणं कार्यन्ततश्चासिद्धो दृष्टान्त इति भावः।
तदयुक्तमिति सिद्धान्त धा दी। अविशेषात् सामान्यस्येति। एकत्वान्नित्यत्वाच्च अविशिष्टं सामान्यन् (न)तत्कार्यकृदिति शमनकार्यकृत् । अन्यथा सामान्यस्याविशेषात्तासां गूडूच्यादिव्यक्तीनां क्षेत्रादिभेदेपि तस्यापि ज्वरादिशमनकार्यस्याविशेषप्रसंगतः। चिरशीघ्रत्यादि। विशिष्टक्षेत्रोत्पन्नानां शीघ्रप्रशमनं विपरीतानां चिरप्रशमनं। आदिशब्दाच्चिरतरशीघ्रतरादिपरिग्रहः। क्षेत्रसंस्कारादिभिन्नानां गूडूच्यादीनामुपयोगाद्देहे आरोग्यादिलक्षणस्य गुणस्य तारतम्यं च न स्यात् । सामान्यस्यैक्यात् । अथ क्षेत्रादिभेदेन सामान्यस्य विशेष इष्यते। तदा विशेषे वा सामान्यस्येष्यमाणे स्वभावभेदः स्याद् विशेषलक्षणत्वाद् भेदस्य। ततश्च स्वरूपहानं। सामान्यस्वरूपमेकं हीयते। ध्रौव्याच्च कारणात् सामान्यस्य व्यक्तिभ्योनुपकारतो न सामान्य कार्यकृदिति वर्तते। यदि हि सामान्यमुपकुर्यात् तदा नित्यत्वात् सहकारिभिरनाधेय विशेषस्यान्यानपेक्षणत्वात् सहकार्यनपेक्षणात् तत् सामान्यं स्वकार्य सकृज्जनयेत्। अथ न जनयेत् तदा तज्जननस्वभावं न भवति । अजननावस्थाया अविशेषात् कार्यकालेपि न जनयेदिति यावत् । व्यक्तीनां त्वनित्यानां कार्यकृत्त्वे नायं दोष इत्याह । व्यक्तयस्त्वित्यादि (1) संस्कारो जलावसेकादि। विशिष्टा उत्पत्तिहँसान्तास्तथा। विशेषोस्यास्तीति
1 Hgyur-ro-sñam-du-Sem-pas-na.' 2 Dogs-dbyun-du-med-pa.