________________
१७८
प्रमाणवात्तिकस्ववृत्तिटीका (११७६) पादयो भिन्नाश्च परस्परानन्वयेऽपि प्रकृत्या एकाकारं प्रत्यभिज्ञानं जनयन्ति, अन्यां वा दहन गृहादिकां काष्ठसाध्यामर्थक्रियां यथाप्रत्ययम्। न तु भेदाविशेषेऽपि जलादयः। श्रोत्रादिवद् रूपादिविज्ञाने॥
ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा।
दृष्टा यथा वौषधयो नानार्थेऽपि न चापराः॥७६॥ . यथा वा गुडूचीव्यक्त्यादीनां सह प्रत्येकं वा ज्वरादि शमनादि लक्षणानां एककार्यक्रियावत्। न तत्र सामान्यं अपेक्ष्यते। भेदेऽपि तत्प्रकृतित्वात्। न तदविशेषेऽपि दधित्रपुसादयः॥
तासु तथाभूतासु' (?) सामान्यमपि किंचित् अस्तीति चेत् । तत एव* तदेकं
अधुना दार्टान्तिकम्व्याचष्टे। शिशपादय इति शिशपाखदिरन्यग्रोधादयः परस्परानन्वयेपि। वृक्षत्वसामान्यविरहेपि वृक्ष इत्येकाकारं प्रत्यभिज्ञानं जनयन्ति। प्रत्यभिज्ञानादन्याम्वा दहनगृहादिकां काष्ठसाध्यामर्थक्रियां शिशपादयो जनयन्तीति प्रकृतं। यथाप्रत्ययमिति यावद् (1) अग्निसहकारिप्रत्ययलाभस्तदा दहनं जनयन्ति। गृहानुकूलप्रत्ययसंपाते गृह। आदिशब्दाद् रथादिकार्यपरिग्रहः । न तु भेदाविशेषेपि जलादयः काष्ठसाध्यार्थक्रियासमर्थाः प्रकृत्या तेषामतत्कार्य-. त्वात। अत्रापि दष्टान्तमाह। श्रोत्रादिवद रूपज्ञान इति। यथा श्रोत्रशब्दादयो रूपविज्ञाने कर्तव्ये न समर्थाः। आदिशब्दाद् रसादिविज्ञाने ॥ ___स्यादेतद् (1) बहूनां प्रत्येकमेककार्यकर्तृत्वं सामान्यमन्तरेण न सिध्यतीत्यत आह। ज्वरादित्यादि। सहेति व्यक्त्यन्तरसहिताः। प्रत्येकमित्येकैकरूपा ज्वरादिशमने एकस्मिन् कार्ये दृष्टा यथोषधयः । वा शब्द: पूर्वदृष्टान्तापेक्षया। न चापरा दधित्रपुसा (?षा) दयः।।
यथेत्यादिना व्याचष्टे। न तत्र ज्वरादिशमने कर्तव्ये सामान्यमोषधित्वं नामापेक्षन्ते (?)। किङ्कारणं (1) भेदेपि तत्प्रकृतिकत्वात्। ज्वरादिशमनकार्य
स्वभावत्वात्। यदि भेदानामसामर्थ्यं स्यात्। भवेत्सामान्यापेक्षा। न तदवि67a शेषेपि' भेदाविशेषेपि दधित्रपुसादयः। दध्येव मन्दजातन्दधित्रपुसं। दधि च त्रपुसश्चेति द्वन्द्वमन्ये व्याचक्षते॥
तासु गुडूचीव्यक्त्यादिषु तथाभूतास्वेककार्यकारिणीषु। किंचिदिति व्यतिरिक्तमव्यतिरिक्तं च। तदुक्तं (1)
1Rims.
2 Hdi-sñam-du.