________________
४. सामान्यचिन्ता
विकल्पस्य बीजम् । तमेव गृह्णन् एष विकल्पः स्ववासनाप्रकृतेरेवं प्रतिभाति ॥
(ख) भिन्नानामभिन्नं कार्यम् कथं पुनभिन्नानामभिन्न कार्य, येन तदन्येभ्यो भेदात्' अभेव इत्युच्यते। प्रकृतिरेव तादृशी भावानाम्।
एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने ।
भेदेपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥७५॥ यथेन्द्रियालोकमनस्कारा आत्मेन्द्रियमनस्कारा रूपविज्ञानमेकं जनयन्ति आत्मेन्द्रियमनोर्थतत्सन्निकर्षात्' वा, असत्यपि तद्भावनियते सामान्ये। शिश- 444b
येनेत्येककार्यत्वेन। तदन्येभ्योऽतत्कार्यभ्यो भेदाद्धेतोर्व्यक्तीनाम एकासंसर्गस्तद्वयतिरेकिणां समानतेति वचनात् । ' प्रकृतिरित्यादिना परिहरति। प्रकृतिः स्वभाव एकाकारं' प्रत्यभिज्ञान- 66b मेकप्रत्यवमर्शः। अनुभवज्ञानमर्थज्ञानं। एकप्रत्यवमर्शश्चार्थज्ञानं चेति द्वन्द्वः । पूर्वनिपातलक्षणस्य व्यभिचारित्वात्। अल्पाज्तरत्वे प्यर्थज्ञानशब्दस्य न पूर्वनिपातः कृतः। ते आदी यस्येति विग्रहः। आदिशब्दाद् दहनगृहादिकार्यग्रहणं । एकप्रत्यवमर्शादिरेवैकोर्थ इति कर्मधारयः। तस्य साधने सिद्धौ भेदेपि नानात्वेपि नियताः केचित् । स्वभावेन प्रकृत्या। इन्द्रियादिवत् । अथवैकान्तेन भेदेपि स्वहेतुभ्यः केचित् समाना उत्पन्नाः केचिदसमाना इत्येतच्चोक्तन्तत्र ये समाना उत्पन्नास्ते तेन स्वभावेनैकाकारं प्रत्ययञ्जनयन्ति विनापि सामान्यनेन्द्रियादिवत्। तत्रैकप्रत्यवमर्शज्ञानसाधने नियता इत्येतद् दार्टान्तिकत्वेनोपन्यस्तमर्थज्ञानाद्येकार्थसाधन इत्येतत्त दृष्टान्तत्वेनोभयसिद्धत्वात्।
अत एवादौ विभज्यते । यथेन्द्रियेत्यादि। यथेन्द्रियालोकमनस्कारा रूपविज्ञानमेकं जनयन्तीति सम्बन्धः। एतद्वस्तुबलसिद्धमुदाहरति। आत्मेत्यादि परसिद्धान्ताश्रयेण। नित्यमणु मनः शीघ्रं चेत्यणुस्वरूपम्मनः। तत्सन्निकर्षाइत्यात्मेन्द्रियमनोर्थसन्निकर्षाः। “आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेने"ति वचनात् । आत्मेन्द्रियमनोर्थाश्च तत्सन्निकर्षाश्चेति द्वन्द्वः। आत्मन्द्रियमनोर्थाः। यथास्वं सन्निकर्षसहाया विज्ञानं जनयन्तीति पराभ्युपगमः । असत्यपि तद्भावनियत इत्येककार्यत्वनियते। न हि चक्षुरादीनां चक्षुर्विज्ञानजनकत्वं नाम सामान्यम्परेणेष्टं ।
2 Pāṇini 2: 2: 34.
1 Rims.
२३
3 Nyāya-bhāşya 1: 1: 4.