________________
प्रमाणवाा
प्रमाणवात्तिकस्ववृत्तिटीका (१७४) न्तरभाविनो रूपम्। ततश्च ज्ञानान्तरात् व्यक्त्यन्तर 'मविशेषकं कथं सामान्य भवेत् ?
- तस्मान्मिथ्याविकल्पोयमर्थेष्वेकात्मताग्रहः।
न हि अर्थानां भेदेनाभेदेन वापि योग्यात्मनाऽपि केनचिद् तुल्यमिति तथषां ग्रहणविकल्पोऽपि मिथ्या॥
इतरेतरभेदोस्य बीजं संज्ञा यदर्थिका ॥४॥ यस्येतरेतरभेदस्य प्रत्यायनार्थ अतत्साध्येभ्यो भिन्नसाध्यान् भावान् ज्ञात्वा तत्परिहारेण प्रवर्त्ततेति संकेतः क्रियते, सोऽयं तस्यैकात्मताप्रतिभासिनो मिथ्या
बाह्यमुक्तमधुना ज्ञानान्तरं निर्दिश्यते। अत एवाह (1) कथमन्यस्य पुनर्ज्ञानस्येति । किम्विशिष्टस्य ज्ञानस्य (1) व्यक्त्यन्तरभाविनः । एकस्यां गोव्यक्तौ यद्विकल्पविज्ञानन्ततोन्यत्र गोव्यक्त्यन्तरेण समुत्पन्नस्य विकल्पज्ञानस्येत्यर्थः । तथा ह्यनेकज्ञानव्यापनाद्वा सामान्यम्भवेत्। बाह्यव्यक्तिव्यापनाद्वा । ज्ञानप्रतिभासस्य तु द्वयमप्यसत् । तदाह। ततश्चेत्यादि । व्यक्त्यन्तरमिति बाह्यं ॥
तस्मादित्युपसंहारः।
न हीत्यादिना व्याचष्टे । केनचिदिति सामान्यरूपेण । तथैषां ग्रहणमित्यर्थानां समाना इति ग्रहणं॥ . ननु सिद्धान्त वा दि ना प्यस्य विकल्पस्य निबन्धनं वाच्यमनाश्रयस्योत्पत्तौ सर्वत्र प्रसंगादित्याह। इतरेतरभेद इत्यादि। संज्ञा संकेतक्रिया यद थिका (1) य इतरेतरभेदः। अर्थः फलं प्रत्याय्यत्वेन यस्य इति कृत्वा स एवम्भूत इतरेतरभेदो भावानामन्योन्यव्यावृत्तिलक्षणोस्य मिथ्याविकल्पस्य बीजं संज्ञा संकेतक्रिया। यथिका। यस्येतरेतरभेदस्य प्रत्यायनफला।
यस्येत्यादिना व्याचष्टे। यस्येतरेतरभेदस्य प्रत्यायनाथं संकेतः क्रियते। अतत्साध्येभ्य इत्यतत्कार्येभ्यो भिन्नासाध्यान्भावान्भेदेन ज्ञात्वा तत्परिहारेणेत्येतत् कार्यपरिहारेण तत्कार्येषु प्रवततेति कृत्वा संकेतः क्रियते। सोयं यथोक्त इतरेतरभेदस्तस्यैकात्मताप्रतिभासिन एकाकारस्य मिथ्याविकल्पस्य बीजं कारणं । तमेव गृह्णन्निति भेदं भिन्नमित्यर्थः । एतच्चाध्यवसायवशादुच्यते। न पुनर्विकल्पस्य वस्तुगृहणमस्ति (1) एष विकल्प इति सामान्याकारो विकल्पः स्ववासना प्रकृतेरिति विकल्पवासनास्वभावात् । एवमित्येकाकारतया प्रतिभाति । (1७४।)
कथं पुनर्भिन्नानां स्वलक्षणानामभिन्नं कार्यमेकाकारविकल्पात्मकं ।