SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता १७५ संकरः। तथा च तहि बुद्धेरेव प्रतिभासो अर्थज्ञानरूपत्वात् सत्तया सामान्यमिति चेत् (1) तन्न। एवम्। ..ज्ञानादव्यतिरिक्तञ्च कथमर्थान्तरं ब्रजेत् ॥७३॥ . 444a ज्ञानस्य' रूपं कथं अथान्तराणां सामान्यं, तस्य तेष्वभावात्। तद्भावाध्यवसायादिति। तथा भ्रान्त्या व्यवहार इति चेत् । तत्र तत्प्रतिभासोत्पत्तेः किन्निबन्धनम्। अनाश्रयस्योत्पत्तौ सर्वत्र स्यात्। (अथवा) एकाकारे एकज्ञानं अव्यतिरिक्तं कथं अन्यस्य पुनशनस्य व्यक्त्य इति विकल्पबुद्धेरेकाकारप्रतिभासः सामान्यमिति सम्बन्धः। स च ज्ञानरूपत्वात् । ज्ञानवत् सन्नेव। तदुक्तं (1) “सामान्यं वस्तु रूपं हि बुद्ध्याकारो भविष्यति। वस्तुरूपा च सा बुद्धिः शब्दार्थेषूपजायते। तेन वस्त्वेव कल्प्येत वाच्यं बुद्धयनपोहकमि"ति । . तन्नेत्यादिना प्रतिषेधति । यत्तज्ज्ञानरूपं सामान्यमिष्यते। तज्ज्ञानादव्यतिरिक्तं ज्ञानस्वलक्षणवत् कथमथन्तरम्बाह्यं ब्रजेत् । न तेषां सामान्यमिति यावत् (1) तद् व्याचष्टे (1) ज्ञानस्येत्यादि। तस्य ज्ञानरूपस्य तेष्वर्थेष्वभावात् । सत्यं (1) न ज्ञानरूपस्य व्यक्तिष्वन्वयः किन्तु तस्मिन् बुद्धिप्रतिभासे तद्भावाध्यवसायात्। बाह्यभा'वाध्यवसायात्। तथा भ्रान्त्या समानव्यवहार 66a इति चेत्। एतच्चेष्टमेव सिद्धान्त वा दि नः। केवलं प्रकृत्यैककार्याः व्यक्तयोऽतत्कार्याद् व्यावृत्ताः। तथाभूताया विकल्पबुद्धेनिमित्तमित्यन्यापोहाश्रया सा बुद्धिरित्यभिमतं शास्त्रकारस्य। परस्त्वेवंभूतं निमित्तं नेच्छति। अत एव सिद्धान्तवादी निमित्तमेव पर्यनुयुंक्ते (1) तत्रेत्यादि। तत्र व्यक्तिभेदेष्ववस्तुभूतेषु व्यक्तीनां च प्रकृत्या विजातीयव्यावृत्तानामेककार्यत्वानिच्छतचो (? तो)ज्ञानोत्पत्तेः किन्निबन्धनं। नैव किञ्चित् । तथा हि परो विजातीयव्यावृत्तामां भेदानामेकप्रत्ययहेतुत्वन्नेच्छति । न चास्ति वस्तुभूतं सामान्यं । अनाश्रयस्येत्यनिमित्तिस्य सामान्यज्ञानस्योत्पत्ती सर्वत्र स्यादिति गौरित्येकाकारः प्रत्ययो वृक्षेष्वपि स्यात् । ज्ञानादव्यतिरिक्तमित्यादेरपरमर्थमाह। अथवेत्यादि। पूर्वमर्थान्तरशब्देन 1 Log-pahi-phyir. 2 Ses-pa-pohi.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy