________________
१७४ - प्रमाणवात्तिकस्ववृत्तिटीका (१७२) नाभिधानप्रत्ययनिमितभूतमेकं सामान्यं न तु सर्वमिति चेत् । कथमन्यतोऽन्यत्र प्रत्ययवृत्तिः? तत्संबंधादिति चेत् । संख्याकार्यद्रव्यादौ सत्यपि प्रसज्येत। असामान्यात्मकत्वादिति चेत्। कोऽयं सामान्यात्मेति तदेव न विचारितम् । तत्र सति सम्बन्धे प्रत्ययवृत्तिः। ततः सामान्यमिति उक्तम्। तत्र निमित्तसम्भवात अनेकसम्बन्धिद्रव्यादिभ्योऽपि प्रत्ययवृत्तिः। ततः सामान्यात्मता।
अन्यथाऽन्यत्रापि मा भूत् । विशेषाभावात् । तथा च द्रव्यगुणसामान्यानां रूप
भिन्नाभिधानप्रत्ययनिमित्तमेकसामान्यं न सर्व द्वित्वाद्यपि। तस्य यथोक्तशब्दज्ञानानिमित्तत्वादिति चेत् । कथमन्यतः सामान्यादन्यत्र व्यक्तिभेदे सामान्येनैकरूपतामनापादिते। प्रत्ययवृत्तिरेकाकारज्ञानवृत्तिः ।
तत्सम्बन्धादिति परः। ताभिर्व्यक्तिभिः सम्बन्धादन्यतोपि सामान्यादन्यत्र प्रत्ययवृत्तिः ।
संख्येत्या चा यः। भावलक्षणा चेयं सप्तमी। संख्यायां सत्यां कार्यद्रव्येऽवयविनि सति। आदिशब्दात् संयोगादिषु सन्नप्रत्ययवृत्तेस्तेपि सामान्यं प्राप्नुवन्तीति समुदायार्थः। असामान्यात्मकत्वात् संख्यादीनान्तद्वलेन द्रव्ये नैकाकारप्रत्ययवृत्तिरिति चेत्।
ननु स एवायं सामान्यात्मा विचार्यते (1) कोयं सामान्यात्मेति। संख्यादिभ्यो विवेकेन सामान्यलक्षणस्यैवाप्रतीतत्वात्। नैतद् व्यक्तमिति यावत् । तदेवाह। तत्रेत्यादि। तत्र कोयं सामान्यात्मेति पृष्ट त्वयोक्तमेकस्यानकेन सति सम्बन्धे व्यक्तिष्वभिन्नप्रत्ययवृत्तिः। तत इति प्रत्ययवृत्तेः कारणादनेकसम्बद्धमेकं सामान्यमिति सामान्यलक्षणं।
अत्र सामान्यलक्षणेऽस्माभिरुच्यते। अनेकसम्बन्धिनो विद्यन्ते येषां कार्यद्रव्यादीनां। आदिशब्दात् द्वित्वादिपरिग्रहः। तेभ्योपि तदाश्रयद्रव्येष्वेकाकारप्रत्ययोत्पत्तिः स्यात्। किङ्कारणम् (1) निमित्तसम्भवात् । तथा ह्यनेकसम्बन्धादेव निमित्तात् सामान्यादेकप्रत्ययोत्पत्तिरिष्यते (1) अस्ति चानेकसम्बन्धित्वमेकप्रत्ययनिमित्तन्द्रव्यादिष्वपि। ततश्चेत्येकप्रत्ययप्रवृत्तेः संख्यादीनां सामान्यात्मता। अन्यथेति। यथोक्तसामान्यलक्षणयोगेपि संख्यादिषु सामान्यात्मता यदि नेष्यते। अन्यत्रापि सामान्याभिमते मा भत्। किं कारणं। विशेषाभावात्। तथा च द्रव्यादीनामपि सामान्यरूपतापत्तौ द्रव्यगुणादीनां रूपसंकरः। बुद्धरेव प्रतिभास
1 Dbyod-pa.