________________
४. सामान्यचिन्ता
- १७३
यस्माद
व्यक्तयो (नानु)यन्त्यन्यदनुयायि न भासते। न हि व्यक्तयस्ताः परस्परं अन्वा विशन्ति। भेदाभावेन सामान्यस्यैवाभावप्रसंगात्। अन्यच्च ताभ्योऽन्यच्च व्यतिरिक्तं, तथा न किंचित् बुद्धौ प्रतिभासते। अप्रतिभासमानं च कथमात्मनाऽन्यं ग्राहयेद् व्यपदेशयेद वा।
न च एकसम्बन्धत्वात् अपि सामान्यं स्याद् अतिप्रसंगादिति तैरुक्तम् । अभि
तथा बाह्यन्तत्सामान्यन्नास्तीति वाक्यार्थः। ततो न वस्तुभूतं सामान्य विकल्पदर्शनाश्रय इत्यभिप्रायः॥
सामान्याभावे च कारणमाह। यस्मादित्यादि। व्यक्तयः स्वलक्षणानि। नानुयन्ति न मिश्रीभवन्ति। एतेनाव्यतिरिक्तसामान्याभ्युपगमो निरस्तः । ___ व्यतिरिक्तनिराकरणार्थमाह। अन्यदनुयायीति। अनुयायि यदिष्टं भेदेभ्योन्यत् सामान्यरूपन्तत्प्रत्यक्षबुद्धौ न भासते। ____ ननु विकल्पप्रतिभासेपि सामान्ये भेदाभेदपक्षयोरयमनन्वयादिदोषस्तुल्य एवेति कथं सामान्यमिष्यते। समानाकारस्तावत् प्रतिभासत एव। यावदसौ न बुध्यते भेदाभेदरहित इति तावदस्यालङ्कार एवावस्तुत्वप्रतिपादनाद् (1) अत एव यथाप्रतिभासं त्वसावस्तीत्युच्यते।
अन्वाविशन्ति मिश्रीभवन्ति। यदि परस्परमन्वावेशः स्यात्तदैकरूपापत्ते:दाभावः। तेन कारणेन सामान्यस्यैवाभावप्रसङ्गात् । तेन भेदानां समानानाकाकारप्रत्ययनिबन्धनत्वं धर्मः सामान्यं। तदभेदाभावेन भवेदित्यर्थः। अन्यच्चेति व्यक्तिभ्यः अन्य दित्यस्य विवरणं व्यतिरिक्तमिति । तथा तेन रूपेण सामान्यबुद्धौ(1) अनेनोपलब्धिलक्षणप्राप्तस्य सामान्यस्याभावव्यवहारे साध्ये स्वभावानुपलम्भ उक्तः। न चानुपलब्धिलक्षणप्राप्तं सामान्यमभ्यपेयं । यस्मादप्रतिभासमानं च सामान्यं कथमात्मना स्वेन सामान्यरूपेण। अन्यमिति सामान्यवन्तं ग्राहयेत् । व्यपदेशयेद्वा। स्वेन रूपेण। कथमन्यमिति प्रकृतेन सम्बन्धः। सामान्यबलाद् व्यक्तिष्वभिन्नाभिधानज्ञानवृत्तिरिष्टा। तस्मात् सामान्यमुपलब्धिलक्षणप्राप्तमेवेष्टमिति समुदायार्थः। एवन्तावद् ग्राह्यलक्षणप्राप्तस्यानुपलम्भान्नास्त्येकमनेकसम्बन्धि (1)
भवतु नामैकमनेकसम्बद्धन्तथापि सामान्यरूपता न युक्तेत्याह। न चेत्यादि। तैरिति व्यक्तिभेदैः उक्त मिति द्वित्वादि। संयोगकार्यद्रव्येष्वपि सामान्यस्वभावत्वं 65b प्राप्नोतीत्यप्रसंगस्योक्तत्वात्। एकमनेकसम्बद्धमित्येव कृत्वा न सामान्यं किन्त्व