________________
१७२ प्रमाणवात्तिकस्ववृत्तिटीका (१।७२)
न ह्येवं प्रतिपत्तिरिति चेत् । न वै केवलं एवमप्रतिपत्तिः व्यक्तिव्यतिरिक्ताव्यति443b रिक्तक त्वव्यापित्वादिभिराकारैरपि नैव प्रतिपत्तिः। केवलं अभिन्नाकाराया
बुद्धेर्य आश्रयः सोऽन्यापोह उच्यते। तस्य वस्तुषु सम्भवात्, अविरोधात् शब्दाश्रयिव्यवहारस्य तथा दर्शनाच्च । यथेयं बुद्धिः प्रतिभाति, ततः न किंचिदपि वस्तुभूतं सामान्यम् ॥
ख्यापयन्नाह। न वै केव'लमित्यादि। एवमप्रतिपत्तिरित्यन्यापोहरूपेण । त्वया यथा व्यक्तिव्यतिरिक्तादिभिराकाररिष्टं सामान्यन्तथापि नैव प्रतिपत्तिः। आश्रयाद् व्यतिरिक्तं वै शे षि का दीनामव्यतिरिक्तं सांख्या दी ना मादिशब्दात प्रत्येकपरिसमाप्तत्वादिपरिग्रहः। तत्र भेदस्तावत्सामान्यस्य न प्रतिभासत एव । इह सामान्यमिति बुद्ध्यनुत्पत्ते: अभेदेपि व्यक्तीनामेव प्रतिभासः स्यान्न सामान्यस्य। भेदाभेदे चोभयपक्षभावी दोषः स्यात्। नापि तत्प्रत्येकपरिसमाप्तं युज्यते। यत एकव्यक्तावेकसम्बन्ध्येव तत् स्यान्नानेकसम्बन्धि । न चैवं सामान्यमनेकसम्बन्धित्वादस्य समानानाम्भावः सामान्यमिति वचनात्। ___ अथ व्यक्त्यन्तरेषु । तस्य प्रत्यभिज्ञानात् तत्सम्बन्धित्वमेवमपि भूतगुणवदेकमनेकसम्बन्धि स्यान्न प्रत्येकपरिसमाप्त। एकैकस्यां व्यक्तावनेकसम्बन्धित्वेनाप्रतीतेः। प्रतीतौ वा तत्रानेकव्यक्तिप्रतिभासः स्यात्। अथ व्यक्त्यन्तराले प्रतिभासनात् प्रत्येकपरिसमाप्तन्तदुच्यते। तत्किमेतावता तस्यानेकसम्बन्धित्व
मेकत्र सिध्यति। न च सामान्ये प्रत्यभिज्ञानं युज्यत इत्यप्युक्तं। तस्मान्न तस्य 65a प्रत्येकपरिसमाप्तिर्नापि नित्यत्वमेकत्वं व्यापित्वं च प्रतिभासत इति स्थितं ।
यदि वस्तुभूतस्य सामान्यस्यापोहस्य च तुल्यः प्रतिपत्त्यभावो व्यवहारे । कस्तमुस्या पाश्रय इत्यत आह । केवलमित्यादि। स्वलक्षणानां विजातीयरहितत्वमन्यापोहः सोऽभिन्नाकाराया बुद्धेनिमित्तत्वेनोच्यते। किं कारणं (1) तस्य विजातीयविरहलक्षणस्या न्यापोहस्य भिन्नेष्वपि सर्वत्र वस्तुषु भावात् तथाभूतस्य चान्यापोहस्य सामान्यबुद्धिहेतुत्वम्प्रत्यविरोधात् । तथा हि यथैकम्वृक्षमवृक्षाद् व्यावृत्तं पश्यत्येवमन्यमप्यतस्तत्रैकाकारा बुद्धिरुत्पद्यते। न चात्र बाधकं प्रमाणमस्ति। ___तृतीयकारणमाह। व्यवहारस्य चेत्यादि । तथा दर्शनादिति । अन्यापोहनिबन्धनत्वेन दर्शनात्। एतच्च तदन्यपरिहारेण प्रवर्त्तते (?त इ)ति च ध्वनिरुच्यत इत्यादिना प्रतिपादयिष्यते। यथेत्येकाकारा इयं विकल्पबुद्धिः प्रतिभाति (1)
1 Gcig-pa-dan-khyab-pa-ñid.