________________
४. सामान्यचिन्ता
तथा तत्कारितया तत्कारिभ्यो भिन्नान् शब्देन प्रतिपादयन्तीत्युच्यते । तत्वचिन्तकास्तु प्रतिभासभेदादिभ्यो नाभेद' मनुसन्धत्ते ।
यदि प्रतिपत्त्रभिप्रायोऽनुविधीयते, तदाऽन्यापोहोऽपि सामान्यं (मा) भूत् ।
१७१
ननु दृश्यविल्पयोरेकीकरणं किमुच्यते । यदि दृश्यस्य विकल्प्यादभेदः बाह्येर्थे प्रवृत्तिर्न स्यात् । विकल्प्यस्य दृश्यादभेदः स्वलक्षणं शब्दार्थः स्यात् । न च दृश्यविकल्प्ययोरेकीकरणं प्रत्यक्षेण तस्य विकल्प्याविषयत्वात् ( 1 ) नापि विकल्पेन तस्य दृश्याविषयत्वात् । अतीतादौ च दृश्याभावात् कथन्तयोरेकीकरणं ।
अत्रोच्यते। अर्थानुभवे सति तत्संस्कारप्रबोधेन तदाकार उत्पद्यमानो विकल्पः स्वाकारम्बाह्याभिन्नमध्यवस्यति न त्वभिन्नं करोति । तेन विकल्पविषयस्य दृश्यात्मतयाध्यवसायाद् दृश्यविकल्पयोरेकीकरणमुच्यते ( 1 ) दर्शनार्हो दृश्यः शक्यते वा द्रष्टुमिति विकल्पकदर्शनस्यापि ? यो विषयः स दृश्यस्तेनानागतस्याप्यर्थस्या- 64b गोपदर्शितस्य दृश्यत्वं सिद्धन्तथाऽभावस्यापि । अत एवाभावः प्रत्ययः स्वाकारम्भावरूपमपि पदार्थाभावाव्यतिरेकेणाध्यस्य प्रत्येतीत्यभावविषय उच्यते न त्वभावं गृह्णाति (1) सर्वविकल्पानां निर्विषयत्वात् ।
तत्कारितयेत्यादि । न केवलन्तदभिप्रायवशाद् विकल्पबुद्धिः स्वलक्षणेषु विवेकेषु भवतीत्युच्यते । तथा तत्कारितया करणेनातत्कारिभ्यो भिन्नानर्थान् शब्देन वक्तारः प्रतिपादयन्तीत्युच्यते । व्याख्यातारोपि दृश्यविकल्पयोरैक्यं किमिति प्रतिपद्यन्त इति चेदाह । प्रतिभासभेदादिभ्य इति दृश्यस्य हि स्पष्टः प्रतिभासो न विकल्पस्य । विकल्पानुबद्धस्य स्पष्टत्वायोगात् । आदिशब्दान्निरुद्धेपि दृश्ये विकल्पस्यानिरोधात् । 2 अर्थक्रियाया: करणादकरणाच्च । तत्त्वचिन्तका न्यायानुसारिणः व्याख्यातार: ( 1 ) शेषषष्ठी चेयन्तत्त्वस्य चिन्तका इति । तत्त्वस्य चिन्तका नातत्त्वस्येति सम्बन्ध्यन्तरव्यवच्छेदमात्रापेक्षायां क्रियाकारकभावस्याविवक्षितत्वात् । (1) चिन्तयतेर्वा पचाद्यजन्तस्य तत्त्वशब्देन षष्ठीसमासं कृत्वा स्वार्थिकः कन्प्रत्ययः कृतः । ततोत्र तृजकाभ्या' मित्यादिना षष्ठीसमासप्रतिषेधो नाशंक्यः । नाभेदमनुसन्धत्ते । दृश्यविकल्पयोरिति प्रकृते ।
यदीत्यादि चोदकः । प्रतिपत्त्रभिप्रायोनुविधीयते बाह्येषु सामान्यव्यवस्थानं । तदाऽन्यापोहपि सामान्यं मा भूत । किं कारणं ( 1 ) न ह्येवमिति । अन्यापोहः शब्देन चोद्यत इत्येवं व्यवहर्तॄणां नास्ति प्रतिपत्तिः । आचार्यो पि तुल्यतां
1 Pānini. 2: 2:15.