SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रमाणवात्तिकस्ववृत्तिटीका (११७२) विकल्पानां प्रकृतिविभ्रमात् वस्तुग्राहिणीव प्रतिभाति । सा हि तदन्यविवेकिषु भावेष्वेव भवन्ती विवेकविषयति गम्यते। ___ ननु बाह्या विवेकिनः। न च तेषु विकल्पप्रवृत्तिः। कथं तेषु भवतीति । व्याख्यातार एवं विवेचयन्ति न तु व्यवहारः। ते तु स्वालम्बनमेव अर्थक्रियायोग्यं मन्यमानाः विकल्प्यावेकीकृत्य प्रवर्तन्ते। तदभिप्रायवशाद् एवमुच्यते। 64a स एवेति सिद्धान्तवादी। स एव विकल्पबुद्धि' व्यवस्थापितः प्रतिभासमानोऽन्यापोह उच्यते। अन्यविविक्तपदार्थदर्शनद्वारायातत्वात् । यदि विकल्पाकारः सामान्यं कथं बाह्यानां समानरूपतया प्रतीतिः। यदाह (1) . "अथ निर्विषया एता वासनामात्रभावतः । प्रतिपत्तिः प्रवृत्तिश्च बाह्यार्थेषु कथम्भवेद्” (1) इत्यत आह। तमेवेत्यादि। तमिति विकल्पबुद्धिप्रतिभासं गृह्णती सा विकल्पिका बुद्धिर्वस्तुग्राहिणीव प्रतिभाति। कस्माद् विकल्पानां प्रकृतिविभ्रमात् स्वभावेनैव स्वाकाराभेदेनार्थग्रहणविभ्रमात्। ___ कथन्तमुपोहविषयेत्युच्यत इत्याह। सा हि विकल्पिका बुद्धिरध्यवसायवशात् तदन्यविवेकिषु भावेषु स्वलक्षणेषु भवन्ती विवेकविषयेति गम्यते। कार्यतो न तु विवेकस्वभावविषयीकरणात् । परस्त्वविदिताभिप्रायः प्राह। नन्वित्यादि। सामान्याद् बाह्याः स्वलक्षणानीत्यर्थः। एवं हि बाह्याध्यात्मिकानां संग्रहः कृतो भवति। विवेकिनः परस्परविलक्षणा (1) न च तेष्विति स्वलक्षेणेषु (1) कथन्तेषु विकल्पबुद्धिर्भवतीत्युच्यते। व्याख्यातार इत्यादिना परिहरति। ते हि यथावस्थितम्वस्तु व्यवस्थापयन्त एवम्विवेचयन्ति। अन्यो विकल्पबुद्धिप्रतिभासो न्यत्स्व लक्षणमिति। न व्यवहार एवं विवेचयन्ति। ते तु व्यवहर्तारः स्वालम्बनमेवेति विकल्पप्रतिभासमेवार्थक्रियायोग्यं बाह्यस्वलक्षणरूपम्मन्यमानाः। एतदेव स्पष्टयति (1) दृश्योर्थः स्वलक्षणम्विकल्प्योर्थः सामान्यप्रतिभासस्तावेकीकृत्य स्वलक्षणमेवेदम्विकल्पबुद्ध्या विषयीक्रियते शब्देन चोद्यत इत्येवमधिमुच्यार्थक्रि याकारिण्यर्थे प्रवर्त्तन्ते। तदभिप्रायवशाद् व्यवहर्तृणामभिप्रायवशादेवमुच्यते विवेकिषु भावेषु विकल्पबुद्धिर्भवतीति दृश्यविकल्प्यावेकीकृत्य प्रवृत्तेरिति वदता (1) न स्वाकारे बाह्यारोप इत्युक्तम्भवत्यन्यथा स्वाकार एव प्रवृत्तिप्रसङ्गात्। मरीचिकायां जलारोपादिव। नापि बाह्ये स्वाकारारोपः। आरोप्यमाणफलाथित्वेनैव प्रवृत्तिप्रसंगात । जलार्थिन इव जलभ्रान्तौ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy