________________
४. सामान्यचिन्ता
१६६
तवेषां बुद्धिपरिवत्तिनां भावानां आकारविशेषपरिग्रहाद् बहिरिव' परिस्फुरतां बुद्धिप्रतिभासं अनुसन्धानैः तेषामेव रूपं सामान्यमुच्यते ॥
कथमिदानीं अन्यापोहः सामान्यं इति चेत् । स एवान्यापोहः । तमेव गृह्णती
तवेषामित्यादि । बुद्धिप्रतिभासं विकल्पबुद्ध्याकारं । अनुरुन्धानैः पुरुषैस्तद्बुद्ध्युपस्थापितमेकं रूपं सामान्यमुच्यत इत्यनेन सम्बन्धः । केषां सामान्यमुच्यते । बुद्धिपरिवर्त्तिनामेव । एषां बुद्धिपरिवत्तिनामिति सम्बन्धः । स्वलक्षणान्यनुभूय यथानुभवमसौ शुक्लो घटः कृष्णोन्यो वेत्येवं विकल्पबुद्धिष्वस्पष्टाः घटाकारास्ते बुद्धिपरिवर्तन भावा ये तेषामेव सामान्यं सम्बन्धि । न स्वलक्षणानां सामान्यबुद्धावप्रतिभासनादसम्बन्धित्वाच्च । बुद्धिपरिवर्तिनामेव विशेषणं बहिरिव परिस्फुरता - मिति बहिरिव प्रतिभासमानानामित्यर्थः । बहिःस्फुरणे च कारणमाह । आकारविशेषपरिग्रहादिति (i)
बाह्यार्थविकल्पसंस्थानस्य स्पष्टस्यानुकाराद् बाह्याध्यवसाय इत्येके ।
एतच्चायुक्तं । न हि सादृश्यनिमित्तो बाह्यत्वारोप इति निवेदितमेतत् । तस्मादाकारविशेषो घटाद्याकारस्तस्य परिग्रहोनुभवस्तस्माद् बहिरि परिस्फुरणं ।
एतदुक्तम्भवति । घटाद्यनुभवाहितवासनासामर्थ्येन विकल्प उत्पद्यमानः स्वाकारं बाह्यघटाद्यभेदेनाध्यवस्यति न तु गृह्णाति (1) तेन शब्दविहितेर्थे क्वचित् संशयो भवत्यग्रहणात् । तत्र तु विकल्पः स्वहेतुत एव बाह्याभिन्नं स्वाकारम (ध्य ) वस्यति । न तु सादृश्यात् सदृशस्यार्थस्याभावादग्रहणाच्च ।
ननु बुद्धिपरिवर्तनामपि स्वरूपे व्यतिरेकेण कोन्य एव आकारः प्रतिभासते यत्सामान्यं स्यात् ।
सत्यं । तत्र तावत् केचिदाहुरेकज्ञानाव्यतिरेकादेकत्वन्तेषामिति । अन्ये त्वाहुः प्रत्येकन्तेषां स्वव्यक्त्यपेक्षया सामान्यरूपतेति ( 1 ) तदेतदुभयमप्ययुक्तमेकप्रतिभासाभावात् । केवलमेकरूपतया तेषामध्यवसायात् परैः सामान्यमिष्टमिति तदभिप्रायादेवमुच्यते । आचार्य स्य तु समाना इति प्रतिभासोभिप्रेतो नैक इति तथा च वक्ष्यति ।
अथवा (1) अस्तु "प्रतिभासो धियाम्भिन्नः समाना इति तद्ग्रहणादि" - (१।१०६ ) ति । यदि बुद्धिपरिवर्तिनामेव विकल्पबुद्धिसन्दर्शितं रूपं सामान्यन्तस्य च विधिरूपत्वात् कथमिदानीमन्यापोहः सामान्यमित्युच्यते ।
२२