________________
१६८ प्रमाणवात्तिकस्ववृत्तिटीका (११७२) स्वभावमनुविदधती। एषां भावानामभेदमध्यस्य' स्वयमेवाभिन्नाकारं तान्
सृजन्ती मिश्रयन्ती संदर्शयति। 443a सा च एकसाध्यसाधनतयैव अन्येभ्यो विवेकिनां भावानां विकल्पस्य वासना
तस्याः। प्रकृतिः तदुद्भवा। सा चेयं एवंप्रतिभासमाना संवृतिः। अनया स्वरूपेण पररूपस्य संवरणात्। ते च संवतभेदा भिन्नात्मानोऽपि केन चिद् रूपेणाभिन्ना इव प्रतिभान्ति ।
ग
न्नप्रत्ययजननसामर्थ्यन्तदनुविदधती। अनुकुर्वती। एवं हि तया स्वकारणमनुकृतम्भवति (1) यदि भिन्नेष्वप्येकाकारोत्पद्यते। एषामिति पदार्थानां। अध्यस्येति पदार्थेष्वारोप्य भावानामेवैकं रूपमिति । तान् भावान् सृजन्ती । अभिन्नानिव कुर्वाणा सन्दर्शयति । एकरूपानिव दर्शयतीति यावद् ।
ननु विकल्पस्यानुभूतार्थाहितवासनाबलोत्पत्ताविष्यमाणायां कथं सामान्याकारस्य विकल्पस्योत्पत्तिः सामान्यस्याननुभूतत्वादित्यत आह। सा चेत्यादि। एक सदशं साध्यं साधनञ्च येषाम्भावानां। यथा घटादीनामेकमुदकादिधारणादि साध्यं। साधनं च मृत्पिण्डादि। ते एकसाध्यसाधनास्तद्भावस्तया। करणभूतया। अन्येभ्योतत्साध्यसाधनेभ्यो विवेकिनां भावानां सा प्रकृतिः स्वभावः भिन्नानामपि प्रकृत्या एकाकारविकल्पजननलक्षणः। तथाभूतस्य विकल्पस्य हेतुर्या वासना। तस्याश्च सा तादृशी प्रकृतिर्यदेवं स्वरूपं पर त्रारोपयन्ती। एषा बद्धिः प्रतिभाति। व्यक्त्यभिन्नसामान्यग्राहिणी प्रतिभासत इति यावत्। तेन यदुच्यते। __"स्मार्तमेतदभेदेन विज्ञानमिति यो वदेत्।।
नूनम्बन्ध्यासुतेप्यस्ति तस्य स्मरणशक्यता (॥)"३
इति निरस्तं। भिन्नानामेवानुभूतानामेककार्यकर्तृत्वेन स्वविषयाभिन्नाकार63b प्रत्ययजनने सामर्थ्यां' दनुभूतस्पष्टाकारस्यार्थस्य स्वविषयोस्पष्टस्मरणजननसाम
र्थ्यवत् । तदुद्भवेति वर्णविकल्पवासनाया विवेकिभ्यः स्वभावेभ्यो यथासंख्यं साक्षात् पारम्पर्येण चोद्भवो यस्याः सा तथा। सा चेयमिति बुद्धिः संवृतिरित्युच्यते। सम्ब्रियतेऽनया बुद्ध्या स्वरूपेण स्वप्रतिभासेन पररूपम्वस्तुरूपमिति करण साधनं क्तिनं विधाय । ते च भावास्तयेति बुढ्या । संवृतभेदाः प्रच्छादितनानात्वाः । केनचिद् रूपेणेति विकल्पबुद्ध्यारोपितेन । प्रतिभान्ति विकल्पबुद्धौ।
1 Mi-snan-bar-byas-nas. . 2 Bdag-ñid-kyis-tha-dad-kyan. 3 Slokavartika, अनुमानपरि० 160.