________________
४. सामान्यचिन्ता
१६७
बुद्धिर्विकल्पिका तदन्यव्यतिरेकिणो भावानाश्रित्य उत्पन्ना स्ववासना
ल्पितमारोपितं तथा तत् सामान्यमसत् परमार्थेन ।
ननु यद्यभिन्नः प्रतिभासोऽभ्युपगम्य ते कथं सामान्यमसदित्युच्यते। न (1) व्यक्तिभ्यो भिन्नस्याभिमतस्याभेदेन प्रतिभासनात् । सर्वात्मना चाभेदे व्यक्तिवदनन्वयादनुगतस्य प्रतीतिर्धान्तिरेव । भेदाभेदे च तथैवोभयरूपतया प्रतिभासः स्यात् (1) न च यत्र प्रत्यये यदैव गौरिति प्रतिभासः तदैव तत्र गोत्वमस्येति प्रतिभासः । ___ अथ स्याद् (1) यदननुगमे यस्यानुगमस्तत्ततो भिन्नं यथा नीलादनीलं । शावलेयाननुगमे च गोत्वस्यानुगमो व्यक्त्यन्तरे (1) तस्मात् ततो भिन्नं शावलेयाभिन्नगोत्वग्राहकन्तर्हि प्रत्यक्षं भ्रान्तं स्याद् भिन्नस्यान्यप्रमाणगृहीतस्याभेदेन ग्रहणात्। न चैकस्य येनैव रूपेण भेदस्तेनैवाभेदो विरोधात्। नापि वस्तूनां विशेषरूपतया भेदः । सामान्यरूपतयाऽभेदः। एवं हि विशेषाणामेकदेशादित्वं स्यान्न च स्यात् । सामान्यविशेषयोश्च प्रतिभासभेदो न स्यात् सर्वात्मनाऽभिन्नत्वाद् । भेदे वानुगतव्यावृत्तरूपयोः परस्परासंश्लेषेणैकान्तभिन्नत्वप्रसङ्गात् ।
यदि च प्रतिव्यक्ति तदभिन्नन्तदैकं सामान्यमस्तीति कुतः। न च तत्र प्रथमव्यक्तिदर्शनेऽगृहीतमपि द्वितीयादिव्यक्तौ स एवायमिति प्रतीतेरेक' सामान्य- 63a मस्तीति युक्तं (1) स इति स्मरणांशस्यानुभूतसामान्यविषयाभावेनोत्पत्त्यसम्भवात्। ततश्च यथा प्रथमव्यक्तौ न गृहीतन्तथा द्वितीयादिव्यक्तावपि प्रत्येकं गृहीतमिति कथं स एवायमिति ज्ञानस्योत्पत्तिः स्यात्। न च स इति स्मरणान्यथानुपपत्त्या प्रथमव्यक्तौ निर्विकल्पकेनान्येन वा ज्ञानेन सामान्यग्रहणकल्पना युक्ताऽनुगत रूपप्रतिभासाभावात् । नापि धर्मरूपतया तत्रास्य ग्रहणं युक्तमनुगतैकरूपत्वात् सामान्यस्य। नापि पूर्वापरव्यक्तिसम्बन्धितयास्य प्रत्यभिज्ञाप्रत्यक्षेण ग्रहणमिति शक्यते वक्तुं। इदमेवेत्येवं प्रत्यक्षस्योत्पत्तिप्रसंगात्। पूर्वव्यक्तेरसन्निहितत्वाच्च सन्निहितार्थनिश्चयलक्षणं च प्रत्यक्षमिष्यते ।
तस्मादगोव्यावृत्तकविशेषानुभवपूर्वक मन्यस्मिन्नगोव्यावृत्तेऽनुभूयमाने सति स एवायमित्येकाकारस्य भ्रान्तस्य प्रत्ययस्य वासनासामर्थ्यनोत्पत्तेस्तदेवास्य निमित्तं कल्पयितुं युक्तन्नान्यद् (1) भ्रान्तत्वाच्च बुद्धेरयं सामान्याकारो व्यवस्थाप्यते न वाह्यस्य (।) यथाप्रतिभासं तु बाह्यानामेवार्थानां सामान्यमुच्यते।
बुद्धिरित्यादिना कारिकार्थं व्याचष्टे। बुद्धिर्विकल्पिकेत्यनेन सम्बन्धः । तेभ्यः सजातीयेभ्योन्यस्तस्माद व्यतिरेकः स येषामस्ति। ते तदन्यव्यतिरेकिणः। विजातीयव्यावत्तानित्यर्थः। स्ववासनाप्रति विकल्पवासनास्वभावम्भिन्नेष्वभि