________________
प्रमाणवात्तिकस्ववृत्तिटीका (२०७२)
समानतेत्युक्तम्॥ अपि च।
(पररूपं स्वरूपेण यया संब्रियते धिया। एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः) ॥७॥ तया संवृतनानार्थाः संवृत्या भेदिनः स्वयम् । अभेदिनं इवाभान्ति भावा रूपेण केनचित् ॥७१॥ तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् । (तदसत्परमार्थेन यथा संकल्पितं तथा) ॥७२।।
नामेकेन विजातीयेनासंसर्गः। यथा गोव्यक्तीनामेकेनागोस्वभावेनासंसर्गः स'
एवासंसर्गः। तद्वयतिरेकिणान्तस्मादगोस्वभावाद् व्यावृत्तानां गोभेदानां समानता 62b गोत्वं । एवमन्यदपि सामान्यं बोद्धव्यं ।'
एतदुक्तम्भवति। समानामिति कर्तरि षष्ठी तेन समानानाम्भावः सामान्यमिति विजातीयव्यावृत्ताः समानाकारोत्पन्ना भावाः सामान्यमित्यर्थः। अस्यैव च सामान्यस्य लिङ्गत्वं लिङ्गित्वन्तत्सम्बन्धश्च वस्तुत्वात्। अर्थक्रियाकारित्वाच्च प्रवृत्तिविषयत्वं विकल्पविषयत्वं च यथाऽध्यवसायं न तु ज्ञानाकारस्य । एतद्विपरीतत्वात् ॥
- तदेवं समारोपपक्षे परोक्षं दूषणम्परिहृत्यान्यव्यावृत्तिपक्षे परोक्षं दूषणमन्यव्यावृत्त्यनभ्युपगमादेव निरस्यान्यव्यावृत्ता एव भावा एकत्वेनाध्यवसीयमानाः सामान्यमिति च प्रतिपाद्य बुद्धयाकारेपि सामान्ये परोक्तं दूषणमपनेतुमाह। अपि चेत्यादि। भावानाश्रित्य भेदिन इति व्यावृत्तानि स्वलक्षणम्वाश्रित्य धीरेकार्थप्रतिभासिन्युत्पद्यते । यया स्वरूपेण स्वाकारेणैकेन रूपेण । पररूपं । परस्परव्यावृत्तं वलक्षणं सम्ब्रियते प्रच्छाद्यते। दिति ।धि। किम्विशिष्टया या (1) संवृत्या। संवियतेऽनया स्वलक्षणमिति कृत्वा। सम्वृतनानार्था (:) स्थगितनानार्थाः स्वयम्भेदिनोपि केनचिद् रूपेण विजातीयव्यावृत्त्युपकल्पितेन गोत्वादिरूपेणाभेदिन इवाभान्ति संसृष्ट इव । तेन (1)
"बुद्ध्या कारश्च बुद्धिस्थो नार्थबुद्ध्यन्तरानुगः ।
नाभिप्रेतार्थकारी च सोपि वाच्यो न तत्वत” इत्यादि निरस्तं ॥ तस्माद् बुद्धेरभिप्रायवशात् । एकाकाराध्यारोपवशात् सामान्यंस केस्नप्रकीर्तितं। बुद्ध्यारोपित एवाकारः सामान्यमुक्तमिति यावत्। यथा तया संक