________________
442b
४. सामान्यचिन्ता
१६५ यदाह (1) "अदृष्टार्थे हि' अर्थविकल्पमात्र" इति ।
नैवं प्रतिपाद्यप्रतिपादकाभ्यां स्वलक्षणं प्रतिपन्नं प्रतिपादितं वा भवति । स्वर्गादिश्रवणेऽपि तदनभविनामिव प्रतिभासाभेदः। तस्मादयं अप्रतिपद्यमानोऽपि भावस्वभावस्तथाभूत एव विकल्पप्रतिबिम्बे तदध्यवसायी सन्तुष्यति। तथाभूतत्वादेव शब्दार्थप्रतीतेः, तेनैतदेवमुच्यते (शब्दः।) स्वरूपमाहेति। न पुनः स्वरूपप्रतिभासस्यैव विज्ञानस्य जननात्।
कथमिदानीं एकान्तव्यावृत्तानां भावानां सामान्यमिति; तेषां असंसर्गाद् अन्यस्य चाभावाद् इति चेत्।
उक्तं कथं सामान्यमिति । असंसृष्टानां एकेनासंसर्गः। स एव तद्व्यतिरेकिणां
स्तमाकारमर्पयति (1) किं भूतमसंसृष्टतत्स्वभावं। अगृहीतवस्तुरूपं । आचार्यदि ऊ ना ग स्याप्येतदभिमतमित्याह। यदाहेत्यादि। अदृष्टार्थे स्वर्गादिशब्दे उच्चरितेर्थविकल्पमात्रं श्रोतुर्भवत्यध्यवसितबाह्यार्थस्वभावो विकल्पो भवति न तु बाह्यस्वरूपग्राहकं ।।
अनेन चा चायणा पि विध्यर्थः शब्दार्थोऽभिप्रेत इति दर्शयति। नैवं विकल्पप्रतिविम्बे शब्देन श्रोतरि जनिते प्रतिपाद्यप्रतिपादकाभ्यां यथासंख्यं स्वलक्षणं प्रतिपन्नं प्रतिपादितं वा भवति।
यदि हि शब्देन स्वलक्षणं प्रतिपाद्यते। तदा स्वर्गादिशब्दश्रवणेपि। तदनुभविनामिव। स्वर्गादिप्रत्यक्षवेदिनामिव प्रतिभासाभेदः स्यात् । श्रोतुरपि स्वर्गादिस्वलक्षणाकारप्रतिपत्तिः स्यात् । यतश्च न शब्दात् स्वलक्षणप्रतिपत्तिस्तस्मादयं श्रोता शब्दादप्रतिपद्यमानोपि भावस्वभावस्तथाभूत एवासंसृष्टवस्तुस्वभाव एव विकल्पप्रतिबिम्बे तदध्यवसायी स्वलक्षणाध्यवसायी स्वलक्षणमेव मया प्रतिपन्नमिति सन्तुष्यति (1) किं कारणं (1) तथा भूतत्वादेव। स्वलक्षणस्याग्रहेप्यध्यवसितस्वलक्षणरूपत्वादेव शब्दार्थप्रतिपत्तेः। यतश्च स्वलक्षणाध्यवसायेन शब्दार्थस्य प्रतीतिस्ते नैतदेवमुच्यते शब्द: स्वरूपमाहेति । अर्थान्तरसाधारणरूपापरामर्शन खशब्दप्रवृत्तिनिबन्धमसाधारणं रूपमुच्यत इति वचनात् । न पुनः स्वरूपप्रतिभासस्यैव विज्ञानस्य जननात् ।
तस्मात् स्थितमेतद् विध्यर्थः शब्दार्थोलीकत्वात् परमताद् भेद इति। कथमित्यादि परः। एकान्तव्यावृत्तं रूपं येषामिति विग्रहः। तेषाम्भावानासंसर्गाद न्यस्य चेति भावेभ्यो व्यतिरिक्तस्य सामान्यस्य ।
उक्तमिति सिद्धान्तवादी। कीदृशमुक्तमित्याह । असंसृष्टानां परस्परव्यावृत्ता