________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।६९) संख्या संयोगो वा सम्भवति। ___ कथमिदानीं भेदाभावे खस्य स्वभाव इति न पुनः खमित्येव । खस्य अर्थान्तरसाधारणरूपापरामर्शेन खमिति शब्दप्रवृत्तिनिबन्धनं रूपं, तथा जिज्ञासाया एवमुच्यते। न तु सर्वव्यावृत्तरूपानाभिधानात्।
न तदेव रूपं बुद्धौ समर्प्यते। अतीन्द्रियत्वप्रसंगात्। केवलं अयमेवमभिप्रायः शब्देन श्रोतरि विकल्पप्रतिबिम्बाध्यस्तं असंसृष्टतत्स्वभावं अर्पयति ।
यद्वर्गशब्देनोच्यते। द्रव्यगुणकर्मस्वेव सामान्याभ्युपगमात्। तथा संख्या संयोगो वा न सम्भवति तयोर्गुणपदार्थत्वेन द्रव्य एव भावात् ।
कथमित्यादि परः। इदानीमित्यर्थान्तरस्वभावानभ्युपगमे खशब्दवाच्यस्य भावशब्दवाच्यस्य चार्थस्यासत्यनिश्चये कथं स्वभाव इति भेदेन निर्देशः। न पुनः खमित्येव। भेदनिबन्धाभावादभेदेनैव निर्देशो न्याय्य इत्यर्थः ।
खस्येत्यादिना परिहरति । खस्येति खशब्दवाच्यस्यार्थस्यार्थान्तरस्यति पथि5व्यादेर्यत्साधारणं : रूपमनुपात्तविशेषान्तरस्यापरामर्शन। त्यागेन। खशब्दप्रवृत्तिनिबन्धन रूपमन्यद्रव्यासाधारणं तथा जिज्ञासाया अत्रार्थान्तरासंसर्गि.... ''मेवमुच्यते खस्य स्वभाव इति। तथा खत्वमिति । यथा गम्येत खस्यायं स्वभावो नान्यस्येति।
अनेन भेदान्तरप्रतिक्षेपेणकव्यावृत्तरूपानभिधानादन्यदेव व्यतिरेकाभिधाननिमित्त मुक्तं। तेन घटस्याभाव इत्यादिव्यपदेशः सिद्धो भवति ।
अन्ये पुनराहुः। खस्य स्वभावं प्रतिपादयन् स्वभावशब्दो स्वभावव्यावृत्तिमात्रेण प्रतिपादयति न तु स्वभावान्तराप्रतिक्षेपेण। खशब्दस्तु तमेव रूपान्तरा
प्रतिक्षेपेण। ततः स्वभावान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणेन भेदलेशेन खस्यायं स्वभावः 62 a ख (त्व) मिति भेदेन निर्दिश्यत इति तदेतन्नातिश्लिष्टं भेदान्तरप्रतिक्षेपाप्रतिपत्तेः ।
अर्थान्तरसाधारणरूपापरामर्शेन खशब्दप्रवृत्तिनिबन्धनं रूपमेवमुच्यत इति ब्रुवता स्वलक्षणमेव वाच्यमुक्तमिति मत्वा परो ब्रूते इत्यादि। न तु सर्व इत्यादि।
नेत्यादि सिद्धान्तवादी। यत् सर्वस्माद् व्यावृत्तं स्वलक्षणात्मकन्तदेव रूपं शब्दोत्थायां बुद्धौ शब्दैः समर्प्यते । नेति सम्बन्धः। कस्मात् तस्य स्वलक्षणस्येन्द्रियबुद्धाविव। शाब्दे विज्ञाने प्रत्यवभासने सत्यमतीन्द्रियत्वप्रसङ्गात् । प्रत्यक्षत्वप्रसङ्गात् । किन्तर्हि शब्देन क्रियत इति चेदाह । केवलमित्यादि। अयमिति प्रतिपादकः । दृश्यविकल्पयोरेकत्वाध्यवसायविप्रलब्धस्तथाभूतमसाधारणमर्थं प्रत्याययिष्यामीत्येवमभिप्रायः शब्देन करणभतेन श्रोतरि यो विकल्पस्तस्य प्रतिविम्बबाह्यतयाऽध्य