________________
४. सामान्यचिन्ता
१६३
षष्ठी च न स्यात्, न तत्र सामान्यम् । नापि विभुत्वादयो गुणाः तथोच्यते । अर्थान्तरस्य तत्स्वभाव त्वायोगात्। तेषां च निःस्वभावत्वप्रसंगात्। तस्यापि अर्थान्तरस्वभावत्वतिमि चेत् अतिप्रसंगः स्यात् । तथापि अप्रतिपत्तिः।
एवं षण्णां पदार्थानां षट्पदार्थवर्गादिष्वपि वाच्याः। न हि तत्र सामान्य
न स्यात् तद्धितोत्पत्तिरित्यध्याहारः । खस्य स्वभाव इति षष्ठी न स्यादिति। न हि खशब्दवाच्याद् अर्थादन्यः स्वभावोस्ति भावो वा। यो यथाक्रमं व्यतिरेकषष्ठ्यास्तद्धितस्य वा निबन्धनं स्यात् । खत्वं नाम सामान्यमस्ति तद्व्यतिरेकनिबन्धनमिति चेदाह । न तत्रेत्यादि। एकात्मकत्वात् खस्य नास्मिन् खत्वसामान्य (1) यद्यपि सत्त्वं द्रव्यत्वं चाकाशेस्ति। तथापि न तत् खस्य स्वभावः। घटादिसाधारणत्वात्। नापि सत्त्वद्रव्यत्वे खत्वमित्यत्र भावप्रत्ययस्य निबन्धनं । तयोः श (?) शब्द प्रत्ययाकारणत्वात् । स्वानुरूपज्ञानाभिधाननिबन्धनस्वभावप्रत्ययस्य 61b कारणमिष्टं। नापि विभुत्वादयो गुणा इति। आदिशब्दादेकत्वपरत्वादिपरिग्रहः । तथोच्यत इति खस्य स्वभाव इति । द्रव्यादर्थान्तरस्य विभुत्वादेर्गुणस्य तत्स्वभावत्वायोगाद् आकाशस्वभावत्वायोगात् । न ह्यर्थान्तरमर्थान्तरस्य स्वभावो युक्तः । यदि च विभुत्वादय आकाश स्वभावाः । तदा तेषां च विभुत्वादीनामाकाशस्वभावत्वे निःस्वभावत्वप्रसंगात्। तथा हि यस्तेषां गुणस्वभावः सत्याकाशमेव जातं न चापरस्वभावोस्तीति निःस्वभावता स्यात्। तेषां च निःस्वभावत्वे आकाशस्य व्यतिरिक्तः स्वभावो न स्यादिति भावः। विभुत्वादेरप्यर्थान्तरस्वभावत्वमिति चेदाह । तस्यापीत्यादि । तस्येति विभुत्वादेरर्थान्तरं स्वभावोऽस्येति विग्रहः । अतिप्रसंग इति यत्तदर्थान्तरं विभत्वादे: स्वभावत्वेनेष्टन्तस्याप्यर्थान्तरस्वभावत्वेन भाव्यं । अन्यथा तस्यापि विभुत्वाव्यतिरेकात् - तद्वदेव निःस्वभावता स्यात्। तथा चापरापरस्वभावपरिमार्गणेनानवस्थानादेकस्यापि प्रतिष्ठितस्वभावस्याभावात् । आद्यस्याकाशस्वभावस्याप्रतिपत्तिस्ततश्च स एव व्यतिरेकाभाव इत्यभिप्रायः ।
एवं "द्रव्यगुणकर्मसामान्यविशेषसमवायानां" षण्णां पदार्थानां वर्गः। श्रादिशब्दात् प्रासादमालेत्यादयो वाच्याः।
कथमसति व्यतिरेके षष्ठीति। न हि तत्र षट्पदार्थेषु सामान्यं सम्भवति ।
1 Vaiśesikasūtra 1:4.