________________
१६२
प्रमाणवार्त्तिकस्ववृत्तिटीका ( ११६६ )
4422 सहायीभावः । पुरुषसंयोगसत्तानां बहुत्वात् कथं नगरमिति' एकवचनं स्यात् । तथाभूतानां क्वचिदर्थे ऽभिन्ना शक्तिः सा निमित्तमिति चेत् । न । शक्ते'वस्तुस्वरूपाव्यतिरेकात् ? ।
real व्यतिरिक्ताया अपि अनुपकारोऽपारतंत्र्यात् । शक्तेरुपकारे वा शक्त्युपकारिण्याः शक्तेरपि व्यतिरेकेऽनवस्थानात् अप्रतिपत्तिः । तदव्यतिरेके वा आद्यायां प्रसंग इति यत्किञ्चिदेतत् । खस्य स्वभावः खत्वमिति व्यतिरेकाश्रया
लक्षणश्च । न तावत्पूर्वः सत्ताया अनाधेयातिशयत्वात् । नापि द्वितीयो यस्माद् यथा सत्ता केवला नगरबुद्धिजननं प्रत्यसमर्था तथा प्रासादादिसहितापि सामर्थ्ये वा केवलापि जनयेत् । यदि च द्वयस्य परस्पर सहितता नगरं । तदैकमपि नगरमनेकात्मकं प्रासादाद्यात्मकत्वात् । ततः पुरुषसंयोगसत्तानाम्बहुत्वात् । नगरमित्येकवचनं स्यात् । संयोगशब्देन प्रासादात्मकः संयोग उक्तः । तथाभूतानामिति परस्परसहितानां पुरुषसंयोगसत्तानां क्वचिदर्थं इति नगरमिति विज्ञाने । शब्दे च निष्पाद्ये । अभिका शक्तिरस्ति । 2 सेत्यभिन्ना शक्तिनिमित्तमेकवचनस्येति चेत् । न । किं कारणं (1) शक्तेर्वस्तु स्वरूपाव्यतिरेकात् । पुरुषादिभ्यो वस्तुरूपेभ्योऽव्यतिरेकात् । तद्वदेवानेकत्वमिति कुतस्तदाश्रयमेकवचनं । वस्तुस्वरूपाद् व्यतिरेके वा शक्ते - रभ्युपम्यमगाने पुरुषसंयोगसत्ताभिरनुपकार्यस्य शक्तिरूपस्य पुरुषादिपारतन्त्र्यन्न स्यात्। ततश्च पुरुषादीनां शक्तिरिति सम्बन्धो न स्यादिति भावः ।
अथ व्यतिरिक्ताया अपि शक्तेः पुरुषादिपारतन्त्र्यसिद्ध्यर्थं पुरुषादिकृत उपकार इष्यते । तदा शक्तेरुपकारे वा पुरुषादिकृते इष्यमाणे । यया शक्त्या पुरुषादय: प्रथमं शक्तिमुपकुर्वते । तस्याः प्रथमशक्त्युपकारिण्या अपि शक्ते शक्तेर्व्यतिरेकेनवस्था स्यादव्यतिरेके वा । आद्यायाम प्येकवचननिबन्धनत्वेनेष्टायां शक्ताव व्यतिरेकप्रसंगः। अव्यतिरेके च वस्तुवदेव बाहुल्यमिति तदवस्थो बहुषु बहुवचन " प्रसंग इति यत्किञ्चिदेतत् ( 1 ) शक्तिपरिकल्पने खस्य स्वभाव इति व्यतिरेकाश्रया षष्ठी न स्यात् । षष्ठीकारणत्वाद् भावप्रत्ययोप्युपचारात् षष्ठीशब्देनोक्तः । तेनायमपरोर्थः खत्वमिति व्यतिरेकाश्रया तद्धितोत्पत्तिर्न स्यादिति खस्य स्वभाव: खत्वमित्यनया व्युत्पत्त्या भावप्रत्ययस्योत्पत्तेर्व्यतिरेकाश्रयत्वं ।
अथवा यथायोगं सम्बन्धो ग्रन्थच्छेदश्च कार्य: ( 1 ) खत्वमिति व्यतिरेकाश्रया
1 Bam-po-gsum-pa. तृतीयमाह्निकम् 2 Rtogs-pa-med. 3 De-ni-gyi-ro.
4 Pānini 1: 4:21.