SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता न संयोगः। प्रासादः स्वयमेव संयोगस्वभावः परेणासंयोगाच्च। तत एव संख्या5भावः, तत्संयोगेन पुरुषैश्च विशिष्टा सत्ता हि नगरमिति चेत्, किमस्या निरतिशयाया विशेषणम् । सत्तायाश्चैकत्वात् । नगरबहुत्वेऽपि नगराणीति बहुवचनं न स्यात् । द्वयस्य परस्परसहिततेति चेत् । अनुपकार्योपकारयोःक वस्तुत्वं नगरस्यासिद्धं संयोगस्य गुणपदार्थत्वादित्यत आह । न संयोग इत्यादि। न संयोगस्वभावन्नगरं। तथा काष्ठेष्टकादीनाम्विजातीयानां कार्यद्रव्यानारम्भात् प्रासादोपि न द्रव्यात्मकः किन्तु संयोगस्वभाव इष्यते (1) संयोगश्च गुणो निर्गुणाश्च गुणा इति कुतः प्रासादस्य संयोगो येन तत्संयोगात्मकं नगरं स्यात् । एतदेवाह। प्रासादस्येत्यादि। परणेत्यर्थान्तरेणासंयोगाच्च न संयोगो नगरं। चकारेणानन्तरनिर्दिष्टात् प्रासादादीनां विश्लिष्टानामसंयोगाच्च न संयोगो नगरमित्येतत् समुच्चीयते। तदेवं प्रासादादीनामुभयथा संयोगाभावेन । नगरस्य संयोगस्वभावता निरस्ता। प्रासादादीनां या संख्या तदात्मकं नगरम्भविष्यतीति चेदाह। तत एव संख्याभाव इति। यस्मात् संयोगात्मकप्रासादस्तत एव कारणात् प्रासादस्य संख्याया अभावो निर्गुणत्वाद् गुणानां। संख्यापि हि गुणस्वभावा। स चासौ संयोगश्च तत्संयोगः । प्रासादात्मकः संयोग इत्यर्थः । तत्संयोगेन पुरुषश्च विशिष्टा या सत्ता सा नगरमिति चेत्। किमस्याः सत्ताया एकत्वान्नित्यत्वाच्च निरतिशयाया विशेषणं। न हि प्रासादपुरुषादयस्सत्तां विशिषन्ति। अनाधेयातिशयत्वात्। तस्मात् सत्ता निविशेषणा। तस्या नगरत्वे सर्वत्र नगरस्वं स्यादित्यभिप्रायः। सत्तायाश्चैकत्वादिति। द्रव्यगुणकर्मस्वेकैव सत्ता व्यापिनी। नगरबहुत्वेपि नगरव्यवस्थाश्रयाणां प्रासादादिसमुदायानां बहुल्वेपीत्यर्थः। अन्यथा सत्तात्मके नगरे प्रकृते नगरबहुत्वं कथं स्यात्। द्वयस्येति प्रासादपुरुषादेः सत्तायाश्च या परस्परसहितता सा नगरमिति चेत्। एवं हि सति न सर्वत्र नगरबुद्धिः । प्रासादादीनां सर्वत्राभावात् । प्रासादादिबहुत्वाद् बहुवचनं च सिद्धमिति परो मन्यते। उत्तरमाह । अनुपकार्येत्यादि । अनुपकार्योपकारकयोः सत्ताप्रासादयोः कस्सहायीभावः (1) तथा हि द्विविधः सहकारार्थः परस्परातिशयाधानेन सन्ताने 6ra विशिष्टक्षणोत्पादनलक्षणः । पूर्वस्वहेतोरेव समर्थानामुत्पन्नानामेककार्यक्रिया 1 Bogs-dbyan-du-med-pa. 2 Phan-par-bya-ba-dan-phan-parbyed-pa-po ma-yin-pa.dag-la.=उपकार्यानुपकारकयोः २१
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy