________________
१६० प्रमाणवात्तिकस्ववृत्तिटीका (१८६६) हारनिबन्धनं' येन एवंभूतस्य बहुत्वं कथं भवति, शक्तिभेदादिति चेत्। सर्वत्र एकवचनविलोपः नानाशक्तित्वात्। (एवं) यत्नश्च व्यर्थः स्यात्। वस्त्वभेदाद् अन्यत्र एकवचनमिति चेत् । इहापि स्यात्। तस्माद् अयं नियमो निर्वस्तुकः क्रियमाणः शब्दप्रयोगे इच्छास्वातंत्र्यं ख्यापयति। षण्णगरीति कथं बहुष एकवचनं स्यात् । न हि नगराण्येव किंचित् । कुतस्तेषां समाहार एव । प्रासादपुरुषादीनां विजातीयानांअनारम्भात् । तेषां समस्तानां विश्लिष्टानां द्रव्यं असंयोगाच्च ।
यदेत्यादिना व्याचष्टे । यदा यस्मिन् काले। यच्छब्दमन्ये पठन्ति यस्मादित्यर्थः । येनैवम्भवतीति दारा इत्यादि बहुवचनम्भवति । एकत्वादेकवचनमेव प्राप्नोतीति भावः। एकस्या अपि स्त्रियः सिकतानां च बढ्यः शक्तयस्ततः शक्तिभेदो बहुवचनकारणमिति। सर्वत्रेति यत्राप्येकवचनमिष्टम्वृक्ष इत्यादौ। एकशक्तेरर्थस्याभावात् । सर्वस्य नाना शक्तित्वात्। एवं सत्येकस्मिन्नेकवचन'. मित्ययं यत्नश्च व्यर्थः स्यात्। सत्यपि शक्तिभेदे वस्त्वभेदात्। शक्त्याश्रयस्याभेदात्। अन्यत्रैकवचनविषयेर्थे वृक्षः पट इत्यादावेकवचनमिति चेत् । इहापि दारादावेकवचनमेकस्या स्त्रिया वस्त्वभेदात् । यत एवं न वस्त्वशक्त्याश्रयो वा शब्दप्रवृत्तिभेदः । तस्मादयं शब्दप्रवृत्तिनियमो निर्वस्तुको बाह्यवस्त्वनाश्रयः क्रियमाणः पुरुषेच्छायाः स्वातन्त्र्यं शब्दप्रयोगे ख्यापयति।
षण्णां नगराणां समाहारः क्रियात्मको गुणात्मको वा। एकोस्ति तत एकवचनमिति चेदाह। न हि नगराण्येव किंचिदिति नगरावयविद्रव्यस्यानभ्युपगमात् 6ob कुतस्तेषान्नगराणां समाहारः क्रियात्मको गुणात्मको वा' यत एवमभिधीयेत क्रिया
गुणयोर्द्रव्याश्रितत्वात्। कि पुनर्द्रव्यमित्याह। प्रासादेत्यादि। गृहादिसमुदायो नगरं। विजातीयानां च प्रासादीदानां द्रव्यारम्भानभ्युपगमात् कुतस्तत्समुदायः प्रासादादिसमुदायो नगरं द्रव्यं स्यात्। यावता प्रासादतोरणपुरुषादीनां समुदायो नगरमिष्यते। तेषां प्रासादादीनां समस्तानामसंयोगाच्च कारणान्न गरन्द्रव्यं । संयोगसहायानां द्रव्याणां द्रव्यारम्भकत्वमिष्यते। न प्रासादपुरुषकुड्यादीनां विश्लिष्टानां संयोगोस्ति । येन प्रासादादिजन्यं नगरन्द्रव्यं स्यात् ।
स्यान्मतं (1) यद्यपि साकल्येन प्रासादादीनां नास्ति संयोगस्तथापि येषां तावत् प्रासादपूरुषादीनां परस्परं संयोगस्तत्संयोगात्मकं नगरम्भविष्यत्येवमपि
3 Ji-ltar.
1Hdogs-par. 2. Nams-pa-yin-te. 4 Spyi-lta-zig-rjas. pa. la. yin. te. 5 Panini 1:4:22.