________________
४. सामान्यचिन्ता
१५६
कुत एतत् । तथा व्यवहारायोगात् ॥
न हि धर्मधर्मिणोः भेदे तद् रूपत्वे च शब्दानां यथावस्तु प्रवृत्तौ सामान्यतत्सम्बन्धसामानाधिकरण्य' विशेषविशेष्यभावा युज्यन्त इति यस्य शब्दप्रवृत्तिभेदः सर्वत्र वस्तुकृत एवेष्टः । तस्य-
वक्ष्यामः। 7
दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः ।
खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनं ॥ ६९ ॥
art great अपि स्त्रिय दारा एकस्या अपि बालुकायाः सिकता इति व्यव
योगादिति । व्यवहारविषययोर्धर्मधर्मिणोर्वास्तवे व्यतिरेके । धर्माणां च परस्परं परपरमार्थतो भेदे सामान्यादिव्यवहारायोगात् ।
1 Gzi-mthun-pa-ñid.
441b
एतदेव ग्रहणकवाक्यं न हीत्यादिना व्याचष्टे । व्यवहारविषययोर्धर्मधर्मिणोर्वस्तुत्वे षरस्परं? तत्त्वमन्यत्वं वाभ्युपगन्तव्यं वस्तुनः प्रकारान्तराभावादिति Goa द्वयमुपन्यस्तं । भेदे तत्त्वरूपत्वे चेति पक्षद्वयेपि दोषोद्भावनार्थमन्यथा परेण व्यतिरेकवस्तुभेदादिति भेदपक्षेऽवलम्बिते तत्त्वपक्षेोपन्यासो न प्रकरणानुरूपः स्यात् । तत्सम्बद्ध इति सामान्यतद्वतोः सम्बन्धः । शब्दानाम्वा यथावस्तु प्रवृत्तावभ्युपगम्यमानायां सामान्यादयो युज्यन्ते । एतच्चान्तरमेव वक्ष्यामः । वस्तुकृतमिति वस्तूनामेकानेकत्वादिकं शब्दप्रवृत्तिभेदमेकवचनबहुवचनादीनां प्रवृत्तिभेदं । दाराः शब्दो नित्यबहुवचनान्तः पुल्लिङ्गरचेष्यते । यत्र यदैकस्त्रीविषयो दारा इति शब्दस्तदा भेदव्यवस्थितेः । षण्णगरीति बहूनान्नगराणामेकवचनेनाभिधानादभेदव्यवस्थितेः किन्निबन्धनं (1) बाह्यं नैव किंचित् । आदिशब्दात्मिकता प्रासादमालेत्यादौ भेदाभेदव्यवस्थितेः । खस्य स्वभावः खत्वं चेति खस्य स्वभाव इत्यत्र व्यतिरेकषष्ठ्याः किन्निबन्धनं । अथ तत्त्वमित्यनेनोक्तेन किं यदि खस्य स्वभाव इत्यस्य वाक्यस्य खत्वमितीयन्तद्धितवृत्तिर्भवतीत्येत्कथ्यते तन्नास्ति । न हि. स्वभाव इत्यस्मिन्नर्थे भावप्रत्ययः किन्तर्हि भावार्थ । न च तद्धितवृत्तिप्रदर्शनेन किञ्चित् प्रयोजनमस्त्यन्यतरेण व्यतिरेकप्रदर्शनात् ।
अत्रैके वृत्तिवाक्याभ्यां सर्वो व्यवहारो व्याप्त इति तद्व्याप्तिप्रदर्शनार्थं द्वयमुक्तमिति ।
अन्येऽन्यथा व्याचक्षते । खस्य स्वभाव इति व्यतिरेके किन्निबन्धनं । तथा खत्वमिति व्यतिरेकाभिधायिनो भावप्रत्ययस्य किन्निबन्धनमिति ।