________________
१५८
प्रमाणवात्तिकस्ववृत्तिटीका (१।६८) नहि 'व्यतिरेके षष्ठी' 'बाहुल्य का दि' रित्येवमादि। एतदपि पुरुषाभिप्रायनिरपेक्ष वस्तुसन्निधिमात्रेण न स्वयं प्रवृत्तम् । ते तु तत्र तथा प्रयुञ्जत इति ततः तथा प्रतीतिर्भवति । एवमन्यत्रामपि तैः कथंचिद् प्रयुक्तास्तथैव प्रतीतिहेतवो भवन्ति । तत्र पुरुषायत्तवृत्तीनां अवस्तुसंदर्शिनां विकल्पप्रबोधहेतूभूतानां शब्दानां यथाभ्यासं वाच्येषु प्रवृत्तिचिन्ता। तद्वशाद् वस्तुव्यवस्थान जाड्यख्यापनमेव केवलम् ।
धर्मधादिषु व्यावृत्तिदेन तथाकृतव्यवस्याः शब्दा न पुनर्वास्तवादेवति
भिविनियम्यते। तत्तथेति तद्वचनं यथायोगं वाचकं ।
तव्याचष्टे । (1) न हीत्यादि । व्यतिरेके वस्तुभेदे सति षष्ठीविभक्तिर्बाहुल्ये जसादयो बहुवचनप्रत्यया भवन्तीति वै या क र णा नां व्यवस्थानमेतदपि पुरुषाभिप्रायनिरपेक्षम्वस्तुसन्निधिमात्रेण न स्वयं प्रवृत्तं । संकेतबलेनैव प्रवृत्तमिति यावत् । एतदेवाह। ते तु तत्रेत्यादि। वे तु वैयाकरणादयस्तत्र व्यतिरेके बाहुल्ये च तथेति । षष्ठी बहुवचनं च यथासंकेतं प्रयुञ्जत इति कृत्वा ततः षष्ठ्यादेस्तथा प्रतीतिर्भवति। व्यतिरेकादिप्रतीतिरन्येषामपि भवति । तथाभूतव्यवहारोपलम्भात् । न तु तावता वस्तुबलेन व्यतिरेकबाहुल्ये च षष्ठ्यादीनां नियमः । एवमन्यत्रापीति । धर्मर्मिणोरव्यतिरेकेपि एकत्वे च वस्तुनः कृत कत्वानित्यत्वादीनां कथंचिदिति भेदान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणं धर्ममिणोर्भेदमुपादाय। कृतकत्वादिषु व्यावृत्तिभेदोपलक्षितनानात्वमुपादाय । यथाक्रमं षष्ठी बहुवचनादयस्ते प्रयोक्तृभिः प्रयुक्तास्तथैव यथायोगं प्रतीतिहेतवो भवन्ति । तत्रैवमिच्छामात्रनिबन्धनत्वे शब्दानां स्थिते सति । पुरुषायत्तवृत्तीनान्तदिच्छावशेन प्रवृत्तेरवस्तुसन्दर्शिनां शब्देभ्यः स्वलक्षणस्याप्रतिभासनात्। यथाभ्यासं यस्य यथा संकेताभ्यासस्तथा विकल्पप्रबोधो विकल्पोदयस्तस्य हेतूनां । संकेतानुरूपस्य श्रोतृसन्ताने विकल्पस्य कारणानामित्यर्थः। एवं भूतानां शब्दानांवाच्येष्वर्थेषु येयम्प्रवृत्तिचिन्ता व्यतिरेके षष्ठ्यादय इत्यादिका। नै या यि का दीनान्तद्वशादिति शब्दवशाद् वस्तुव्यवस्थानं । व्यतिरिक्तस्य वस्तुनोङ्गीकरणं। गोर्गोत्वमिति यस्मात् षष्ठी तस्मात् सामान्य व्यतिरिक्तमित्यादि। जाड्यख्यापनं शब्दार्थव्यवस्थाऽनभिज्ञत्वख्यापनमेव केवलं।
तथेत्यादि परः। तथाकृतव्यवस्था धर्मधादिष्विति धर्मे धर्मिणि च भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मर्मिशब्दाः कृतव्यवस्थाः। आदिशब्दाद् द्रव्यत्वपार्थिवत्वानीत्यादिबहुवचनशब्दा व्यावृत्तिभेदेन कृतव्यवस्थाः। न पुनर्वास्तवादेव धर्मर्मिणोर्व्यतिरेकात् षष्ठीवस्तुभेदाद् द्रव्यत्वादीनां धर्माणां परमार्थत एव भेदाद्वहुवचनमिति। कुत एतत् (1) तथेत्यादि प्रतिवचनं। तथा व्यवहारा