________________
४. सामान्यचिन्ता ।
१५७ . ननु च धर्मधर्मिणोरभेदे भेदे च षष्ठयादिविभक्तिर्दृष्टा तत्र बहुषु धर्मेषु । दृष्टो वचनभेद एकस्मिन् धर्मिणि' न युक्तः।
441a उक्तमत्र। न वै शब्दानां स्वभावायत्ततेति। अपि च।
येषां वस्तुवशा वाचो न विवक्षापराश्रयाः।
षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत् ॥६॥ यदि एते क्वचिद् प्रणिनीषिता वस्तुप्रतिबन्धात् धूमादिवत् न हि पुरुषनियोक्तुं पार्यते। तदा कथं षष्ठ्यादय इत्युपालम्भः स्यात् ॥ यदा पुनः।
यद्यथा वाचकत्वेन वक्तुभिर्विनियम्यते। अनपेक्षितवाह्यार्थन्तत्तथा वाचकं वचः ॥६८॥
ननु चेत्यादि परः। दृष्टा प्रयोगेषूपलब्धा। गोर्गोत्वमिति षष्ठी। आदिशब्दाद गवि व्यवस्थितं गोत्वं । गोत्वेन निमित्तेन गवि गोशब्दो वर्तत इत्यादि विभक्तिपरिग्रहः। गोत्वद्रव्यत्वादीनां च धर्माणां बहुत्वात्। तत्र बहुषु धर्मेषु । गोत्वद्रव्यत्वपार्थिवत्वानीति दृष्टो यो वचनभेदः स न स्याद् (1) धर्मर्मिणोरभेदे पारमार्थिकभेदाभावे धर्माणां च परस्पररम् (1)
उक्तमत्रेति सिद्धान्तवादी। न वै शब्दानां काचिद् विषयस्वभावायत्ता वृत्तिरित्यादिनोक्तत्वात् ॥ ___ भूयश्चाधिकार्थविधानेन प्रतिपादयितुमाह। अपि चेत्यादि। येषां वादिनां वस्तुवशा वाचो वस्त्वायत्ताः । न विवक्षापराश्रयाः। विवक्षव परः प्रधानमाश्रयो यासां वाचान्ता विवक्षापराश्रयाः षष्ठी न स्याद् . वचनभेदादयश्च न स्युरित्येवं षष्ठीवचनभेदादिषु चोद्यं षष्ठीवचनभेदादि चोद्यं । आदिशब्दात् । गोर्भावो गोत्वमित्यादि। तद्धितप्रत्ययाभावचोद्यं। तान् वस्तुवादिनः प्रति । युक्तिमत् । एते शब्दाः षष्ठ्यादयः क्वचिदिति वस्त्वभेदेपि प्रणिनीषिताः प्रणेतुमिष्टाः । वस्तुप्रतिबन्धात् । वस्त्वायत्तत्वात् । धूमादिवत् । न ह्यग्निप्रतिबद्धो धूमो वह्निप्रत्यायनसमर्थस्तद्वैपरीत्येन जलप्रत्यायने नियोक्तुं पार्यते। तदा वस्तुप्रतिबद्धत्वे शब्दानामयमुपालम्भः स्यादसति'व्यतिरेके कथं षष्ठचादय इति ॥
59b एतदेव नास्तीत्याह । यदा पुनरित्यादि। यद् वचो यथा येन प्रकारेण भेदस्याभेदस्य वा प्रतिपादनाय । किं विशिष्टमनपेक्षितबाह्यार्थं वाचकत्वेन रूपेण वक्तृ