________________
59a
१५६
प्रमाणवार्त्तिकस्ववृत्तिटीका ( १।६६ )
क्रियते । तत्रैव च धर्मधर्मिणावेव व्यवहारः परस्परं तत्त्वान्यत्त्वा भ्यामवाच्यत्वादिति प्रतन्यते ।
न हि धर्मिणो धर्मोऽन्यः । अनर्थान्तराभिधानात् । नापि स एव । तद्वाचिनामिव धर्मवाचिनामपि व्यवच्छेदान्तराक्षेप प्रसंगात् । तथा चेष्टाऽप्रत्यायनात् संकेतभेदाकरणम् । अवाच्यत्वं धर्मधर्मिणोः शब्दार्थे । वस्तुनि स्वलक्षणे सामान्य लक्षणं अवाच्यं, अविद्यमानत्वात् ।
न केवलं शब्दैर्विकल्पैरपि विषयीक्रियत इत्याह । तदनुभवेत्यादि । तस्य लस्य स्वलक्षणस्यानुभवस्तदनुभवस्तेनाहिता वासना शक्तिस्तस्याः प्रबोधः कार्योत्पादानुगण्यन्ततो जन्म येषां विकल्पानान्तैर्विषयीक्रियत इति सम्बन्धः । किं विशिष्टैरध्यवसिततद्भावार्थैः । अध्यवसितस्तद्भावो बाह्यभावो यस्मिन् विकल्पप्रतिभासे सोध्यसविततद्भाव एवं भूतोर्थो विषयो येषाम्विकल्पानान्ते तथा । दृश्यविकल्पावेकीकृत्य प्रवृत्तेरिति यावत् ।
अध्यवसित' तद्भावार्थ इति पाठान्तरन्तदाध्यवसिततद्भावश्चासावर्थश्चेति कर्मधारयः । एकोप्यनेकव्यावृत्तोध्यवसिततद्भावार्थ इति सम्बन्धः । तस्माद् बुद्धिप्रतिभासवशात् । सामान्यादिव्यवहारः । तत्रैव च बुद्धिप्रतिभासेऽयमिति भेदान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणे । व्यवह्रियत इति व्यवहारः कर्मसाधनः । धर्मधर्मिणावेव व्यवहारः ।
एतदुक्तम्भवति ( 1 ) बुद्धिप्रतिभासे यौ धर्मधर्मिणो व्यवस्थाप्येते । तौ परस्परन्तत्त्वान्यत्वाभ्यामवाच्यादिति प्रतन्यते (1) परमार्थतस्तेन पारमार्थिकधर्मधमितत्त्वान्यत्वपक्षे यो दोषः प्रमाणान्तरादिवैयर्थ्यं स्वातन्त्र्यादिलक्षण उक्तः स इह न भवतीत्युक्तम्भवति ।
तत्त्वान्यत्वपक्षयोर्दोषान्तरमप्याह । न हीत्यादि । धर्मिणः सकाशान्नान्योधर्मः । किङ्कारणम् (1) अनर्थान्तराभिधानात् । धर्मधर्मिशब्दाभ्यामेकस्मादेव व्यवच्छिन्नस्याभिधानात् । नापि य एव धर्मी स एव धर्मः । कस्मात् । तद्वाचिनामिव । धर्मिवाचिनामिव शब्दानां । धर्मवाचिनामपि व्यवच्छेदान्तराक्षेपप्रसंगात् । तथा चेष्टाप्रत्यायनात् । धर्मशब्देनेष्टस्य प्रतिक्षिप्तभेदान्तरस्य भेदस्याप्रत्यायनात् । संकेतभेदाकरणं । प्रतिक्षिप्तभेदान्तरं व्यवच्छेदं प्रत्याययति धर्मशब्द इत्यस्य संकेतभेदस्याकरणं । एतदनन्तरोक्तन्तत्त्वान्यत्त्वाभ्यामवाच्यत्वं धर्मधर्मिणोः शब्दार्थे बुद्धिप्रतिभासिन्यर्थे उक्तं । वस्तुनीति बाह्यस्वलक्षणे । अविद्यमानत्वादेव तत्त्वान्यत्त्वाभ्यामवाच्यं यथाप्रतिभासन्तु शब्दादिविषयो व्यवस्थाप्यते ।