SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिता १५५ तस्य सर्वस्य च समाश्रयः। तत्कार्यकारणतयाऽन्येभ्यो भिद्यमाना अर्था भवन्ति समाश्रयः। शब्दोऽपि अनिष्टाद् व्यावृत्ते प्रवर्तयत्यतोऽन्यापोहविषय उक्तः। तत्र अनपेक्षितबाह्यार्थतत्त्वो बुद्धिप्रतिभासवशाद् एकोऽमेकव्यावृत्तः। शब्दतदनुभवाहितवासनाप्रबोधजन्मिभिर्विकल्पः अध्यवसिततद्भावार्थः विषयी कारणमनुरूपं येषान्तेषाम्भावस्तया। करणभूतया। अन्येभ्य इत्यतत्कार्यकारणेभ्यो भिद्यमाना अर्थाः सर्वस्य सामान्या दिव्यवहारस्याश्रयो भवन्त्यतः कारणाद् अन्यापोहविषय उक्तः (1) न त्वन्यापोहस्तत्र प्रतिभासते बाह्यस्यैवैकाकारस्य विधिरूपतया प्रतिभासनात् । यस्माच्च निश्चयप्रयुक्तः पुरुषमनिष्टपरिहारेणानिष्टादं व्यावृत्ते स्वलक्षणे प्रवर्तयत्यतोपि कारणाद् अन्यापोहविषय उक्तो न तु प्रतिभासापेक्षो विधेः प्रतिभासनात्। तेन यदुच्यते भट्रो द्यो त का राभ्यां (1)' गोशब्दस्यार्थ: किम्भावोथाभावः। यदि भावो किं गौरथागौः। यदि गौर्नास्ति विवादः। अथागौ\शब्दस्यागौरर्थ. इति अतिशब्दकौशलं। अथाभावस्तदयुक्तं। न हि गोशब्दश्रवणादभावे प्रेष्यसंप्रतिपत्तिः। शब्दार्थश्च प्रतिपत्त्या प्रतीयते न च गोशब्दादभावं कश्चित्प्रतिपद्यते तथाऽगौर्न भवतीत्ययमपोहः किं गोविषयोथाऽगोविषयः। यदि गोविषयः कथं गोर्गव्येवाभावः। अथागोविषयः (1) कथमन्यविषयाद अपोहाद् अन्यत्र प्रतिपत्तिः। न हि खदिरेच्छिद्यमाने पलाशेच्छिदा भवति। अथा गौर्गवि प्रतिषेधोऽगौर्न - भवतीति। केन गोरगोत्वं प्रसक्तं यत्प्रतिषिध्यत इति (1) ___ अपास्तं (1) गोविषयत्वाद् गोशब्दस्य केवलं कल्पितविषयत्वाद् विवादः । यथा वा गोप्रतिषेधोऽसत्यपि समारोपे तथोक्तं प्रागिति यत्किञ्चिदेतत् ।। तस्मात् स्थितमेतद्विधिरेव शब्दार्थ इति ॥ एतदेव दर्शयन्नाह। तत्रेत्यादि। अनपेक्षितं स्वरूपेण बाह्यतत्त्वं येन विकल्पबुद्धिप्रतिभासिना धर्मिणा स तथोक्तः। बुद्धिप्रतिभासवशावेकोनेकव्यावृत्त इति । अनेकस्माद् व्यावृत्तस्यैकस्य धर्मिणः सन्दर्शनेन बुद्धेः प्रतिभासनात् । तद्वशेनैको धर्मी अनेकव्यावृत्तो व्यवस्थाप्यते। यश्चानेकस्माद् व्यावृत्तस्तस्मात् तत्र व्यावृbत्तयो धर्मभेदाः कल्प्यन्त इति भावः । स एव भूतो धर्मी शब्दैविषयीक्रियते । तथाभूतविकल्पप्रतिभासजननाय वक्तृभिः शब्दस्योच्चारणात्। यतश्चान्यव्यावृत्तो विकल्पप्रतिभासः शब्देविषयीक्रियते। ततो विधिविषयत्वं सिद्धमिति भावः । 1 Cf. Ślokavārtika. Apoha Nyāyavārtika 2: 2: 71.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy