________________
१५४
प्रमाणवात्तिकस्ववृत्तिटीका (१।६६) अर्थान्तरमुपादाय प्रवृत्तस्य शब्दस्य स्वातंत्र्याभावादिदोषेण बाधा स्यात 440b अन्यस्माद् व्यावृत्तिर्हि व्यावृत्तात् नान्या' द्वयोरेकाभिधानावित्युक्तम् ।
कथमिदानी एकस्य व्यावृत्तस्य अन्याननुगमात् अन्यन्यावृत्तिः सामान्यम् । तबुद्धौ तथा प्रतिभासनात्। न वै किञ्चित् सामान्यम्। शब्दाश्रया बुद्धिरनादिवासनासामर्थ्यात् धर्मानसंसृष्टानपि संसृजन्ती जायते। असदाकारप्रतिभासवशेन सामान्य सामानाधिकरणं' च व्यवस्थाप्यते। अर्थानां एकस्य भेदाभावात्।
वृत्तिस्ततो नास्त्यस्वातन्त्रा (?न्त्र्या) दिदोष इत्याह। न चेत्यादि। अन्यस्माद् वस्तुनोर्या व्यावृत्तिः सा व्यावृत्तान्नान्या। द्वयोधर्ममिवाचिनोः शब्दयोरेकस्य व्यावृत्तिभेदस्याभिधानादित्युक्तमनन्तरमेव। .
कथमित्यादि परः। इदानीमिति व्यावृत्तितद्वतोरैक्ये। एकस्य व्यावृत्तस्य स्वलक्षणस्याननुगमात् । अर्थान्तरासंसर्गात्। कथन्तस्य स्वलक्षणस्यात्मभूता व्यावृत्तिः स्वलक्षणवदनन्वयिनी सामान्यं स्यात् ।। नैव। दृष्टा च सामान्यं ।
तबुद्धावित्यादिना, सिद्धान्तवादी। सामान्यबुद्धौ विकल्पिकायां तथैकाकारेण प्रतिभासनादेकाकार एव व्यावय॑तेनेनेति व्यावृत्तिः। सामान्यमुच्यते। एतदाह (1) न व्यावृत्तेषु स्वलक्षणेष्वात्मभूता व्यावृत्तिरेका सामान्यं केवलं व्यावृत्तस्वलक्षणानुभवोत्तरकालभावी विकल्पः प्रकृत्या। एककार्येषु भावेष्वेकमाकारमादर्शयन्निवोत्पद्यते। तद्विकल्पवशात् सामान्यमास्थीयते (1) निःसामान्येष्वप्यनेन च साक्षाच्छब्दादिविषयो दर्शितः। ____एतदेव स्फुटयन्नाह । न व किंचिदित्यादि। वस्तुभूतमित्यभिप्रायः। कथन्तर्हि सामान्यसामानाधिकरण्यादिव्यवहार इत्याह। शब्देत्यादि। शब्द आश्रयः सहकारिकारणत्वेन यस्याः सा विकल्पिका बुद्धिरनादिवासनासामर्थ्यात् । धर्मानसंसृ. ष्टानपि संसृजन्ती एकाकारानिव कुर्वाणा जायते। तस्या बुद्धेरेकाकारप्रतिभासवशेन सामान्यं। धर्मद्वययुक्तकर्मिप्रतिभासवशेन सामानाधिकरण्यं च व्यव
स्थाप्यते। अयं च सामान्यादिव्यवहारोऽसद्व्यापि व्यवस्थाप्यते। कथमसदर्थ58b इत्याह। अर्थानामित्यादि। स्वलक्षणांनां संसर्गाभावात् सामान्यव्यवहारोऽसदर्थः।'
एकस्य च स्वलक्षणस्य भेदाभावात् सामानाधिकरण्यव्यवहारोसदर्थः । . ननु विरूपतयाऽयं सर्वव्यवहारः प्रवृत्त इति कथमन्यापोहविषय इत्यत आह । तस्य सर्वस्य सामान्यादिव्यवहारस्यार्थाः समाश्रय इत्यनेन सम्बन्धः । तत्कार्यन्तच्च
1 Czi-mthun-pa-ñid.