________________
४. सामान्यचिन्ता
१५३
यथा ज्ञायते क्रिया व्यतिरिक्ता न तत्समवायो वेति ।
तेनाऽन्यापोहविषये तद्वत्पक्षोपवर्णनम् ।
प्रत्याख्यातं पृथक्त्वे हि स्याहोषो जातितद्वतोः ॥६६॥ तद्विशिष्टस्यार्थस्य शब्दरभिधानादन्यापोहेऽपि तद्वत्पक्षोक्तिः सर्वः प्रसंगः तुल्यः स्यात्, इति यदुक्तं, तदपि अनेन प्रतिव्यूढम्। तत्र हि
तार
शब्दाभिधेयं पाचकत्वेनाप्यभिधीयत इत्यध्याहार्यः। तस्यैव प्रतिक्षिप्तभेदान्तरस्याभिधानात्। न तु सम्बन्धोभिधीयते। तस्यासत्त्वात्। तदेव यथोक्तं पाचकशब्दाभिधेयं पाकशब्देनापीत्यपिशब्दात।
अपरं व्याख्यानं। न वै पाकेनेति पाकशब्देनान्यापोहवादिपक्षे अन्य एव व्यतिरिक्तः क्रियाश्रयभूतः पाचकोभिधीयते । यादृशो वर्ण्यते परेण (1) यः क्रियाकारकसम्बन्धस्याश्रयः स्यात्। तस्यासिद्धत्वात् (1) किन्त्वपाचकव्यावृत्तिर्भेदान्तरप्रतिक्षेपेणाभिधीयते। तदेवाह। यत्पुनरित्यादि। यदित्यपाचकव्यावृत्तिलक्षणं प्रतिक्षिप्तभेदान्तरमभिधेयं । अस्येति पाकशब्दस्यानन्तरमेव दर्शितं तदेव पाकशब्दाभिधेयम्पाचकत्वशब्देनाप्यभिधीयते (1) न सम्बन्धः। तस्यासिद्धत्वात् । अप्रतिष्ठितैरवस्तुबलायातैरत एव मिथ्याविकल्पाः ।।
कथम्पुनर्गम्यते क्रिया व्यतिरिक्ता नास्ति तत्समवायो वेत्यत आह। यथेत्यादि। तत्समवायो वेति क्रियाकारकसमवायः। यतश्च व्यावृत्तिव्यावृत्तिमतोरभेदस्तेन कारणेनान्यापोहविषयो जातिमान् शब्दै' रभिधीयत इति (1) तद्व- 58a त्पक्षस्तत्र यो दोषः सोन्यापोहेपि स्यादिति तद्वत्पक्षोपवर्णनं प्रत्याख्यातं । यस्मात् पृथकत्वे हि जातितद्वतोरभ्युपगम्यमाने स्यात् तद्वत्पक्षोदितो दोषः।
तद्विशिष्टस्येत्यन्यापोहविशिष्टस्यार्थस्य शब्दरभिधानात् तद्वत्पक्षोदित इति तद्वत्पक्षे य उक्तः। यथा किल सामान्यमभिधाय तद्वति वर्तमानः शब्दोऽस्वतन्त्रः स्यात्तप्तश्च शब्दप्रवृत्तिनिमित्तभूतेन सामान्येन वशीकृतस्य शब्दस्य व्यक्तिगतपरस्परभेदानाक्षेपात्तैः सामानाधिकरण्यं न स्यात् । उपचरिता च तद्वति शब्दप्रवृत्तिरित्यादिको दोष इत्येवं व्यावृत्तिमभिधाय तद्वति वर्तमानोस्वतन्त्रो ध्वनिरिति सर्वः प्रसंगः स्यात्। तदपि तद्वत्पक्षोपवर्णनं। अनेनेति व्यावृत्तिव्यावृत्तिमतोरनन्यत्वेन प्रतिव्यूढं प्रत्याख्यातं। यस्मात् तत्र हि तद्वत्पक्षे। अर्थान्तरमुपादायेति वस्तुभूतं सामान्यमुपादायान्यत्रार्थान्तरे तद्वति। साक्षात् सामान्यवतोऽनभिधानादस्वातन्त्रयं । आदिशब्दादसमानाधिकरण्योपचारदोषपरिग्रहः ।
अन्यापोहपक्षे तु व्यावृत्तिव्यावृत्तिमतोरैक्यान्नार्थान्तरमुपादायार्थान्तरे शब्दप्र
२०